________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका 29 भ्रमाद्यजन्यत्वेन साधुत्वात् / कुमुदे न तथेति चेत्-न, प्रतिपदार्थे साधुत्वज्ञानस्य हेतुत्वेऽभिन्नव्यक्तौ तस्य दुर्ग्रहत्वेन तत्र प्रयोगानापत्तेः / येन रूपेणान्वयबोधस्तेन रूपेण तद्ग्रहस्य तु कुमुदेऽपि संभवात् / वस्तुतः साधुत्वज्ञानं न हेतुरवयवव्युत्पन्नेन भ्रमाद्यजन्यं पूर्वप्रयोगमज्ञात्वाऽपि नवकाव्यादिप्रयोगात् / ग्रामगामादावन्वयाबोधस्त्वसाधुत्वनिश्चयात् / नवकाव्यादौ च नायं संशयस्तु न विरोधीत्यत एव साधुत्वनिश्चयहेतुत्वं न शङ्कापदम् / अमाधुत्वं च न भ्रमादिजन्यत्वं शुकाघुक्तप्रामगामादौ साधुत्वापत्तेः, किन्तु महाजनपरिगृहीतव्याकरणस्मृतिनिषिद्धत्वं तच्च न पङ्कनपद इति योगप्रतिबन्धकत्वेन समुदायशक्तिनिराबाधा / न च पकोत्तरजत्वेनैव शक्तिः सर्वात्रन्स्यवर्ण एव शक्त्यापत्तेः / न चेष्टापत्तिर्विनिगमकाभावाद्विभक्त्यर्थान्वयेऽन्त्यवर्णार्थत्वस्य पाक इत्यादावतन्त्रत्वादिति सम्प्रदायः / अत्र केचित् ज्ञाता हि या शक्यमनुभवति सा शक्तिः, न च समुदाय शक्तिस्तथा, योगस्यैव तथात्वात् / इत्थं चात्र शक्तित्वं पारिभाषिकं प्रतिबन्धके शक्तित्वस्य क्वाप्यसिद्धेः, मण्डपादावनुपदार्थमेव तत्सिद्धेः, किंच रूढियोगयोर्विरोध एव रूढया योगप्रतिबन्धो मण्डपादौ तथा निर्णयात् / अविरोधे लम्बकर्ण पश्येत्यादावर्थद्वयस्यापि युगपत्प्रतीतेरूढ्या कार्णाटस्य योगेन च लम्बकर्णस्यानुभवात् / लम्बकर्णस्तु कार्णाट इति दुर्घटेन, 'लम्बकर्णः समाख्यातः अङ्कोटे छागलेपि च'इति विश्वप्रकाशेनानुशासनात् / यत्तु 'पङ्कजमानय'त्यादौ रूढया शीघ्रोपस्थित पद्ममेव क्रिययान्वेति न पंकजन्मकर्तृ, तस्य वाक्यार्थत्वेन विलम्बितप्रतीतिकत्वादेवमविरोधेऽपि रूढेर्योगापहारितेति तन्न; क्रियापदतदर्थतद्योग्यतादिज्ञानाधीन क्रियान्वयबोधस्य बिलम्बितत्वात् / रूढियोगार्थयोरन्वयबोधस्य प्राथमिकत्वात् तन्न प्रतिबन्धकत्वेन रूढिसिद्धिर्नवा तया प्रतिबन्धसंभवो विरोधादित्याहुः, तन्न विरोधेऽपि रूढयर्थविशेषणतया व्यक्तिवचन-न्यायेन योगार्थबोधेऽन्यत्र निराकाङ्क्षतयाऽन्वयासंभवादेः प्रागेवोक्तत्वात् / एतेन पंकज मित्यतः पंकजपद्ममित्यन्वयबोधेऽपि समभिव्याहृतकुमुदपदेन पद्यांशमपहाय बोध इत्यपास्तम् पमान्वितत्वेनोपस्थितस्य पंकजनिकर्त्तविशेष्याकाङ्क्षाविरहेणान्यत्रान्वयासंभवात् / पदप्रागेवावयवकुमुदाभ्यां पद्मांशत्यागेन बोधः स्यात्* योगरूढिभ्यामेव प्राग बोधात्कुमुदपदतदर्थयोग्यताज्ञानादेविलम्बितत्वात् न चैवं स्थलपमे पङ्कजपदप्रयोगः कथं योगार्थाभावादितिचेच्छक्त्या न कथंचित् तस्य विजातीयत्वेन रूढयर्थत्वाभावात् / कथंचित्प्रतीत्या सौरभादिसाम्ये साजात्येऽपि लक्षणैव / सा च समुदाये स्थलपद्मत्वेन पद्मत्वेन तु डप्रत्यय इति बोध्यम् , पद्माकृतिसदृशाकृतिमत्त्वेन लक्षणेति कश्चित् / डप्रत्ययस्यैव पद्मत्वविशिष्टे लक्षणेति न समुदाये शक्तिरिति दीधितिकृतस्तन्मते पङ्कजसमुदायस्य पद्मपर्यायत्वं दुर्घटमिति दिग् / * एतच्चिह्नमध्यवर्तीपाठः खण्डितः प्रतिभाति /