________________ 28 न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका दयोः शक्तिः यद्धर्मावच्छिन्ने सम्बोध्यत्वबुद्धिर्यद्धर्मावच्छिन्ने च यद्वाक्योच्चारयितृत्वं तेन मौनिसाधा. रण्यं उच्चारणं च स्वातन्त्र्येण, तेन 'वाभ्यस्त्वया मेद्वचनात् सराजेत्यादौ मत्पदात् नमूलकवेर्बोधः / ननु स्वातन्त्र्यं यदीतरोच्चारणज्ञानाप्रयोज्योच्चारणकर्तृत्वं तदा देवदत्तेन घटपदमुचारितमिति मया ज्ञायत इत्यादावस्मच्छब्दप्रयोगो न स्यात्, एतद्वाक्यस्योच्चारणस्य देवदत्तोच्चारणज्ञानाधीनत्वात्. इतरस्य सजातीयोच्चारणज्ञानाजन्येत्युक्तौ च कवावेव स्वातन्त्र्यं. न सीतायां; सीतया तादृशकाव्यानुच्चारणात् तथा च सीतायां स्वातन्त्र्याभावादस्मच्छब्दप्रयोगानुपपत्तिः / किंच 'कस्त्वं भो! कथयामि दैवहतकं मां विद्धि शाखोटकमि'त्यादौ कविनिबद्धवक्तरि शाखोटके मामिति न स्यादिति चेत् न, कविवाग्महिम्ना सीतायामुच्चारयितृत्वभ्रमेणोच्चारयितृत्वबुद्धिमत्त्वात् तस्यामुच्चारयितृत्वस्य प्रतिपिपादयिषितत्वात् एवं शाखोटकेऽपि, अत एव स्वस्मिन्न स्वातन्त्र्यं अस्वातंत्र्यत्य स्वस्मिन् स्वयं विवक्षितत्वात् / तथैव स्वातन्त्र्यस्य वाच्यत्वात् / वयं कुर्म इत्यादावप्युच्चारयितृत्वविवक्षया संगतिः। रसोदबोधेप्रौढोक्तिनिर्मितवैज्ञानिकसम्बन्धेनोच्चारयितृत्वमेव प्रयोजकमिति हेमसूरयः / परे तु संबोध्यत्वो. चारयितृत्वावच्छेदकावच्छिन्न एव युष्मदस्मदोः शक्तिः, तादृशावच्छेदकं चैत्रमैत्रादिशरीरावच्छिन्नात्मत्वम् आत्मन्येव युष्मादादिप्रयोगादिति सर्दसिद्धम् / असंबोध्यादेः सम्बोध्यत्वादिभ्रमे शक्तिभ्रमादेव बोधः / अत एव चैाभिप्रायेण तव धनमिति प्रयोगे मैत्रबोधेऽपि न प्रामाण्यं, भ्रमासंभवे तु लक्षणयैव बोधः / 'कस्त्वमित्यादौ तुल्यार्थान्वयानुपपत्तेः संबोध्यत्वादिप्रतीतेः प्रयोजनस्य च सत्त्वात् / “सर्वोऽप्यहं गुणीति वेत्ति अयमहं दरिद्र इति ख्यापयति" इत्यादावपि लक्षणयेवोच्चारयितृत्वप्रतिपत्तिः / अस्मत्पदस्य स्वोच्चारयितर्येव शक्तेर्वयमित्यादौ महार्णवोको विरूपैकशेषो युक्त इत्याहुः / इदं तु बोध्यम् सर्वमतेऽपि चैत्रत्वमैत्रत्वादिनैवात्मगतेन बोधः मयेदं कृतमिति चैत्रेणोक्ते चैत्रेण कृतं नवेति संशयनिवृत्तेः / “अहमात्मागुडाकेश" इति गीतायां "तत्त्वमसि' इत्यादि श्रुतावात्मन्येव प्रयोगाच्च, 'अहं गौर' इत्यादौ तु गौणत्वमित्यलं पल्लवेन / ___अस्तु कुमुदे पूर्वेषामप्रयोगादप्रयोगः पूर्वपूर्वगवामुत्तरोत्तरगोहेतुक [स्व] वत् पूर्वपूर्वप्रयोगस्योत्तरोत्तरप्रयोगहेतुत्वादिति चेत् नावयवशक्त्या बोधकत्वज्ञानस्येष्टसाधनताज्ञानेनैव प्रयोगहेतुना पूर्वप्रयोगमज्ञात्वाऽप्यवयवव्युत्पन्नेन पावकादिपदवत् कुमुदेऽपि पङ्कजपदस्य प्रयोगसंभवात् / न च ग्रामगमनादिकर्तरि प्रामगामादिपदानामिव बोधकत्तभ्रमात् कुमुदे पंकजपदप्रयोग इति भ्रमादिजन्यत्वाभावरूपसाधुत्वज्ञानाभावान्न तत्सबोध इति वाच्यम्, पंकजनिकर्तरि तत्प्रयोगस्य 1. रघुवंशोक्तिः / 2. अहमात्मागुडाकेश सर्वभूताशयस्थितः // [गीता भ. ]