________________ न्यायसिद्धान्तमब्जरीशब्दखण्डटीका किंच पद्मत्वस्य बुद्धिस्थत्वतुल्यत्वे शाब्दविषयता न स्यात् / न हि तच्छक्यतावच्छेदक तद्रूपेणाबोधात् किंतूपलक्षणीभूय शक्यतावच्छेदकानुगमकम् / बुद्धिविषयतावच्छेदकावच्छिन्नमेषां शक्यमित्येव शक्तिग्रहाद्यादृशधर्मे यदा घटो बुद्धिविषय इत्याद्याकारयत्पुरुषीयज्ञानेन बुद्धिविषयतावच्छेदकत्वग्रहस्तदा तादृशधर्मावच्छिन्नांशे निरुक्तशक्तिग्रहाहितसंस्कारस्योबुद्धत्वात्तद्धर्मावच्छिनस्य तत्पुरुषे स्मृतिः शाब्दधीश्च तैः पदैर्जन्यते / ननु बुद्धिस्थत्वप्रकारिका तथा पद्मत्वप्रकारिका: धीर्न स्यादिति / बुद्धिविशेषणविशेषाच्च न तेषां पर्यायतापत्तिः तथाहि-सर्वपदार्थो दृश्यबुद्धिप्रकारव्यापकयावत्त्वावच्छिन्ने सर्वपदशक्तिः, सर्वपदार्थाऽन्वयितावच्छेदकव्यापकत्वं यावतामनुगमकमिति फलितम् / ___ इत्थं च सर्वे घटा रूपवन्त इत्यतो यावन्तो घटा रूपवन्तो नवेत्यादि संशयनिवृत्तिः / सर्व प्रमेयमित्यत्र वस्त्विति पूरणीय; प्रश्नोपक्रमबुद्धिविषयप्रकारावच्छिन्ने किंपदशक्तिः, जिज्ञासाविषयविषयकं वाक्यं प्रश्नः तदुपक्रमबुद्धिस्तजनकजिज्ञासाजनकबुद्धिः / तद्विषयतावच्छेदकावच्छिन्ने किंपदशक्तिरिति फलितम् / पदार्थत्वादिसामान्यधर्मज्ञाने तदचान्तरधर्मस्मृतौ तादृशधर्माशे निरवच्छिन्नप्रकारताकज्ञानेच्छया के पदार्था इत्यादिप्रश्न इति, सामान्यधर्मज्ञानाधीनस्मृतिविषयता यादृशधर्मे गृह्यते तादृशधर्माशे संस्कारोबोधादनिर्धारितविशेषवत्संशयविषयधर्मवज्जिज्ञासाविषयधर्मवदिति वा प्रश्नवाक्याद्बोधः / सर्वत्रानुगमकधर्मे जिज्ञासाप्रवेशाज्जिज्ञासाज्ञाने तन्निवर्त्तकमुत्तर; 'किमुस्विदित्यत्रानध्यवसितप्रकारावच्छिन्ने 'किमिन्दुः किंपद्ममि'त्यादौ वितर्कविषयप्रकारावच्छिन्ने' 'अयं किंमार्तण्ड' इत्यादौ सन्देहविषयप्रकारावच्छिन्ने ‘स किंसखे त्यादौ कुत्साविशिष्टे 'इदं किमुचितमि'त्यादौ नैवेत्याक्षेपे किंपदशक्तिः / तच्छब्दजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने यत्पदशक्तिः उत्तरवाक्यस्थयत्पदेनापि तत्पदाक्षेपात्; अनाक्षेपे तत्र पृथक्शक्तिः / एवं यच्छब्दजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने तत्पदशक्तिः प्रक्रान्ताद्यर्थकतत्पदेनापि यत्पदाक्षेपात, अनाक्षेपे तत्रापि पृथक्शक्तिः / अत एव मित्रैरवान्तरवाक्योद्देश्यविषये तत्पदमित्युक्तम् / अत्रानाक्षेपपक्ष एव युक्तः, 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' [का. प्र.] इत्यादौ प्रथमपादजन्यबोधादेव यत्पदेनोद्देश्यबोधेऽनुपदमाह वाक्यार्थबोधात् (?) / आक्षेपे तु पुनस्तत्पदयोगेन प्रथमपादजन्यबोधकल्पने गौरवात् / समीपवर्तिप्रत्यक्षविषयतावच्छेदकावच्छिन्ने इदमेतत्पदयोः शक्तिः व्यवहितवर्तिप्रत्यक्षविषयतावच्छेदकावन्छिन्नेऽदसः शक्तिः, इदमादिना बोध्यते यस्ततो विप्रकृष्टेऽदसः प्रयोगात्, प्राथमिकप्रत्यक्षेऽयमिति द्वितीयप्रत्यक्षेऽसाविति प्रयोगात्प्रत्यक्षे प्राथमिकत्वादि देयमित्यन्ये / सम्बोध्यत्वोच्चारयितृत्वबुद्धिविषयतावच्छेदकावच्छिन्नयोर्युष्मदस्मत्प 1. काव्यप्रकाशः. सप्तमउल्लासः *लो. 188 पूर्वार्धः /