________________ न्यायसिद्धान्तमञ्जरोशब्दखण्डटोका कार्यविशेषणान्न व्यभिचारो / अस्तु च रूढ्यान्वयानुपपत्तिज्ञानादिस्थले लक्ष्यार्थेनान्वयग्रहा तादृशतात्पर्यज्ञानकालेऽवयवस्य तद्रूपेणोपस्थितौ शक्त्या समुदायेनोपस्थिती लक्षणेति युक्तमिति / मीमांसकास्तु नेह स्मृत्यर्थं शक्तिः पङ्कजपदप्रयोगविषये नियतपद्मानुभवजनितसंस्कारात्स्मृत्युपपत्तेः / तथाऽप्युद्बोधकापेक्षेति चेत्, सत्यम् , उद्बोधकस्यानियतत्वाच्छक्तिं विना शक्तेरिव पनत्व स्यापि स्मृतिसंभवात् / तर्हि गवादिपदे स्वशक्तिर्न स्याद्व्यवहारकालीनसंस्कारादेव गवादिस्मृतिसंभवादिति चेत्-न, तत्ताभानार्थ शक्तिस्वीकारात् / अव्युत्पन्नस्य ततोऽनुभवाभावाच्च / इहाप्यनु. भवाथै शक्तिरस्त्वितिचेत्-न, अवयवैरेव पङ्कजनिकर्तृत्वेनानुभवसंभवात् / न चैवं लक्षणोच्छियत समभिव्याहृतपदान्तरादेव तत्रानुभवसंभवादिति वाच्यम् , विभक्त्यर्थान्वयार्थ तत्स्वीकारात् / इह त्ववयवार्थत्वादेव तदन्वयसंभवात् , शक्तिं विना नियतप्रयोगः कुत इति चेत् , पूर्वप्रयोगात् / एवं पूर्वप्रयोगोऽपि तत्पूर्वप्रयोगादित्याहुः / तन्न / वृत्त्या पदजन्यपदार्थोपस्थितेरेव शाब्दबोधहेतुताया व्यवस्थापितत्वेन पनत्वविशिष्टरूढे रावश्यकत्वात् / पदान्नियतोपस्थिते वृत्तिसाध्यत्वाञ्च न शक्तिस्मृतौ व्यमिचारः [न च] शक्तेर्नियतस्मृतो. व्यभिचारः; शक्तेर्नियतस्मृत्यभावात् पदार्थस्मृतेरेव नियमतः स्वीकारात् / अस्तु वा पदार्थशक्तित्वेन ज्ञानादेव शक्तिस्मृतिर्यधनुभवः; शक्त्याश्रयत्वमेव वा पदे शक्तिसम्बन्धः, तदंशसंस्कारस्योबुद्धत्वे शक्तेः स्मरणं, शाब्दधीहेतुस्मृतिश्च (?) वृत्तिधीजन्येति उक्तयोगेन कुमुदबोधप्रतिबन्धार्थ रूढ्यावश्यकत्वाच्च / एतेन नियतप्रयोग एव सम्बन्धोऽस्तु; / न चैवं शक्तिकल्पना क्वापि न स्यात् ; अनुभवार्थमन्यत्र तत्कल्पनादित्यपास्त; साक्षात्परम्परया शक्तिप्रयोग्यस्मृतेरेव शाब्दधीहेतुत्वादिति / मिश्रास्तु प्रतिप्रयोगविषयत्वस्य स्मारकसम्बन्धत्वे तापेक्षाया अदृष्टचरत्वात् सम्बन्धि ज्ञानात्सम्बन्धिसहनस्य गुरोर्लघोश्च युगपत्स्मरणदर्शनाच्छक्त्यपेक्षायाः प्रामाणिकत्वाच्छक्तेरेव तथात्वम् / किंच प्रामाणिकं सम्बन्धमपश्यत आप्तस्य तादृशप्रयोगाभावेन सम्बन्धान्तरमवश्यमाश्रयणीयमत एवाप्ततात्पर्यमेव तथास्त्वित्यपास्तमित्याहुः / __ स्यादेतद्यथा सर्वनाम-यत्तद्युष्मदस्मत्पदेषु बुद्धिस्थत्वसंबोध्यत्वोच्चारयितृत्वानि प्रयोगोपाधयस्ततोबुद्धिस्थादेरेव बोधः, प्रयोगोऽपि तेषां तत्रैव, तथा पद्मत्वं प्रयोगोपाधिरस्त्विति चेत्न, तेन हि नावयवशक्तिर्विच्छिद्यते / पोऽपि हि [?] तद्विच्छेदापत्तेः, एकैव हि सा पद्मकुमुदादौ; नापि कुमुदे तात्पर्यमपोयते तस्य क्वाचित्कस्यानुभविकस्य दुरपह्नवत्वात् / नाप्यवयवाधीनं ज्ञानं प्रतिबध्यते आकाङ्क्षादिसत्त्वे योगार्थबोधस्याव्याहत वात् ; पद्मत्वादिज्ञानस्य विरोधित्वे मानाभावात् / नापि प्रयोगो वार्यते इष्टकुमुदज्ञानसाधनताज्ञानस्य प्रयोगहेतोः सत्त्वे तद्वारणासंभवादिति / * पद्मत्वविशिष्टे रुढेरित्यर्थः /