________________ 25 न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका mmmmmm माशयः / चिन्तामणिकृतस्तु नियमतो रूढया स्मृतं पद्ममेव व्यक्तिवाचकडप्रत्ययेन पङ्कजनिकततयानुभाव्यते, बाधकं विना व्यक्तिवाचकानां संनिहितविशेषपरत्वनियमात् , यथाग्नेय्याग्नीध्रमुपतिष्ठते इत्यादी ढगन्ताग्नेयीपदं तत्प्रकरणाम्नाताम् “अग्निमीडे पुरोहितम्" इत्याचमेवाभिधत्ते, न तु "मनीहूर्त पुरोदधे" इति व्यवहितामिति समर्थयन्ति। अथात्रास्तु वैदिके एकप्रकरणानातत्वं सान्निध्यं नियामकमिह तु तन्नास्ति, एकवाक्यान्तर्गतत्वरूपं लौकिकं तु तत् पङ्कजं कुमुदमिति कुमुदेऽप्यस्ति / न च पङ्कजपदं पदतया पनत्वविशिष्टं वाक्यतया च पङ्कजनिकर्तृत्वविशिष्टं बोधयतीति एकानुपूर्वीकबोध्यत्वं तथा, पचती त्याख्यातबोध्यसंख्यायाः कृतान्वयापत्तेरीदृशसान्निध्यस्याप्रयोजकत्वादिति चेत्-न, दण्डी चैत्रो द्रव्यं पङ्कजनिकत्तु पनं प्रमेयमित्यादाविव पङ्कजं प्रमेयमित्यादावन्वयितावच्छेदकावच्छेदेनान्वयपरतायां विशिष्टधर्मावच्छेदेनैवान्वयो, न तु दण्डित्व-चैत्रत्वाद्यवच्छेदेन, दण्डी चैत्रो द्रव्यमित्यन्वये वाक्यभेदापत्तेरित्येवं सान्निध्यस्य नियामकत्वात् / यदि चापवादिकतात्पर्यवशाद्वाक्यभेद एवोपेयते तदा दण्डिमात्रपरत्ववत् पङ्कजनिकर्तसामान्यपरतयास्तु कुमुदसाधारण्यं किं नश्छिन्नं / कुमुदपरत्वे लक्षणेति सिद्धान्तस्य एतादृशापवादिकतात्पर्यानवतारे तत्साम्राज्येनोपपत्तेः / वस्तुतस्त्वत्र विशिष्टपरतव स्वरससिद्धा / केचित्तु "व्यक्तिवचनानामिति" न्यायेनास्तु पमेनैव समं प्रथममन्वयबोध इति जनितान्वयबोधत्वान्न कुमुदेनान्वयबोधः / कुमुदे तात्पर्यग्रहोत्तरं पुनः पङ्कजपदानुसन्धाने योगादेव कुमुदधीरस्त किंलक्षणया; पदार्थतया बोधार्थ लाघवेन तत्स्वीकारे योगात्क्वापि बोधो न स्यात् / न च जनित्वादिना ज्ञानकल्पने गौरवात् पङ्कजपदत्वेनैव ज्ञानात् समुदाये लक्षणासाम्राज्य; सुषुप्त्यपगमक्षणमारभ्य पुनस्तदुत्पत्तिक्षणपर्यन्तं प्रत्यक्षगुणोत्पादस्यावश्यं स्वीकरणीयत्वेन तावत्कालमध्ये ज्ञानान्तरमपेक्ष्य प्रकृतज्ञानकल्पने गौरवाभावात् / न च रूढिज्ञानकालीनपङ्कजपदयोगजन्यपङ्कजनिकत्तृत्वावच्छिन्नविषयतानिरूपितविषयतयान्वयबोधे रूढिज्ञानजन्योपस्थितेर्हेतुत्वात् पङ्कज कुमुदं, कुमुदं पङ्कजमित्यादौ तथान्वयान्ततात्पर्ये पङ्कजसमुदाये लक्षणा। तादृशानन्वयेऽनुभवदाढाभावादूढिज्ञानाभावकाले पङ्कजं पनं पङ्कजं कुमुदमित्यादिसाधारणकार्यकारणभावादूढिज्ञानकालेऽप्युपपत्तेनिरुक्तहेतुहेतुमद्भावे मानाभावात् , अत एव श्लेषादौ रूढिज्ञानका छेऽपि योगमात्रेण बोधः उक्तं च-'प्रमेयतत्त्वबोधे' रूढार्थानुपपत्तिज्ञानोत्तरं योगेनैवार्थबोधो. लक्षणाव्यवहारस्त्वनुपपत्तिप्रतिसन्धानोत्तरं जायमानत्वादिति / अत्र वदन्ति सम्भूयैकमुख्यविशेष्यताकान्वयबोधकत्वस्यौत्सर्गिकत्वात्तद्रक्षायै रूढिज्ञानस्य विरोधित्वे निश्चयत्वादिप्रवेशे गौरवादूढिज्ञानजन्योपस्थितेरेव हेतुत्वम्; आपवादिकतात्पर्यज्ञानकालीनान्यत्वेन 1 'एकानुपूर्वीबो.' इति समीचीनम् / न्या. सि.१