________________ 24 न्यायसिद्धन्तमञ्जरोखण्डटीका संसर्गतयैव भानात् शाब्दबोधेऽपि तथाभानै चित्यात्, अत एव व्यक्त्याकृतीति सूत्रे त्रय एष निर्दिष्टा. / ननु सम्बन्धाशे साक्षात्सम्बन्धेन शक्यवृत्तित्वनिवेशादाकृतिव्युदास इति वदतोदीधितिकृतः चक्षुःप्रकारीभूताया अप्याकृतेः शक्यवृत्तित्वाद्वयवच्छेद इति वदतो मिश्रस्य च स्त्र शक्यतावच्छेदकत्वं नानुमतमिति तु बोध्यम् / ___ न चवं परम्पर।सम्बन्धेन शक्यतावच्छेद केऽव्याप्तिरिष्टत्वात् / 'पिष्टकमथ्यो गाव' इत्यादौ गवाकृतिसदृशाकृतौ लक्षणा पिष्टकसंयोगविशेष्य[ष]स्याशक्यत्वात् / जात्याकृतिव्यक्तीनां प्रत्येकपरत्वे लक्षणैव प्रत्येकस्य जात्याकृतिविशिष्टादन्यत्वात् / अत एवैकयैव शक्त्यैकवित्तिवेद्यत्वलाभाय सूत्रे पदार्थ इत्येकवचनमिति मणिकृतः / मिश्रास्तु तत्रापि पिष्टकस्य गोत्वसंस्थाने एकमेव वैजात्यमानुभविकतया दुरपह्नवं किन्त्वत्र शरीर वृत्तिजातेरभावादाकृतिमात्रपरत्वे लक्षणेत्याहुः / एतन्मते पिष्टकसुवर्णादिनिर्मितेष्वपि गोषु मृत्सुवर्णादिघटेष्विव सन्ति जातिभेदाः / तत्तदवच्छिन्नं प्रत्येकमेव जात्या समवायित्वम् , समवायिनां विशिष्य हेतुत्वात्तदवच्छिन्नानां नियमः / निरुपपदस्य गोपदस्य प्रवृत्तिनिमित्तं मांसलशरोरवृत्तिजा'तरेव मृवृत्तिघटत्वमिव घटपदस्य, कर्पासवृत्तिपटत्वमिव पटपदस्य, सोपपदस्य तु लक्षणेति बोध्यम् / तत्तद्गोत्वाधवच्छिन्नस्य विलक्षणविलक्षणासमवायिकारणवशादेव नियम इति मणिकृन्मतमेव युक्तमित्यन्ये, अभिन्नद्रव्यगनिः क्षेपचतुष्टयस्थले शक्तिरेव भिन्नद्रव्यगततत्स्थले तु लक्षणेत पुनर्विशेषावश्यकादौ. प्रसिद्ध+माहेतं मतम् / भिन्नद्रव्यस्थले वैज्ञानिकसम्बन्धविशेषादेव विशेष इत्यपरे / इदमप्यत्रसुधीजनमनोविनोदाय विनायेने, एवं विशिष्टवाचकत्वेन व्यवस्थितेषु शब्देषु केचन योगरूढाः पङ्कजादयः, केचन यौगिकाः, पाठकादयः, केचन रूढा गवादयः, केचन रूढाः, यौगिकाश्चोद्भिदादयः शब्दाः; तत्र पङ्कजादिपदं यो गकमेवास्तु अलं रूढयेति कश्चित्-तन्न, “पङ्कजशब्दः पद्मत्वविशिष्टवाचको बाधकं विना पद्मत्वविशिष्टबोधकत्वात् पद्मपदवत्" इत्यतस्तस्य रूढिसिद्धेः, अन्यथा कुमुदादावपि पङ्कजपदप्रयोगापत्तेः / न च रूढिस्वीकारेऽपि योगात्तदापत्तिर्वारा समवायेन पङ्कजपदीयपद्मत्वविशिष्टरूढिज्ञानस्य तेन पद्मत्वावच्छिन्नविशेष्यत्वानिरूपितपङ्कजपदयोगजन्यपङ्कजनिकर्तृत्वावच्छिन्नविषयताकबोधे, पङ्कजपदयोगजन्यपङ्कजनिकर्तृत्वावच्छिन्नविषयतया तदीयशब्दत्वावच्छिन्नं प्रांत स्वविषयपद्मान्यत्वसम्बन्धेन वा तदीयपङ्कजपदरूढिज्ञानस्य प्रतिबन्धकत्वान्नियतोपपत्तेः, इत्थं च पङ्कजं कुमुदं पङ्कजं प्रमेयमित्यादितः पङ्कजनिक कुमुदं पङ्कजनिकर्तृ सामान्य प्रमेयमित्यादि बोधानुम्पत्तिः संभवतीत वदन्ति ज्ञानस्य प्रतिबन्धकत्वं विरोधिविषयकत्व जनकज्ञानविघटकत्वान्यतस्याप्यमिति नियमो मानाभावादसिद्ध इति पुनस्तेषा + आईतामाम् इत्यर्थः /