________________ न्यायसिद्धान्तमजरोशनखण्डटोका *हेतुहेतुमद्भावादुपदर्शनेन गुडजिहिकया साकारानुग्रहेऽपि युक्त्या तदनन्तरं समानविषयत्वस्वीकारणतात्पर्येण नैयायिकसम्प्रदायसमर्थनाव्याघातात् गोत्वप्रकारेण शक्तिग्रहे गोशाब्दहेतोगविषयस्वापत्तेरत्यन्तानुचिताया वारणार्थ गोविशेष्यकत्वमवश्यनिवेशनीयमित्यपिब्रूमः / निष्कृष्टमाह मूलम्-(नव्यास्तु) गव्येव शक्तिर्नतु गोत्वेऽपि गौरवात् / न चैवं गोत्वप्रत्ययानापत्तिः गोत्वावच्छेदक (च्छिन्न) शक्तिग्रहस्यंx गोत्वविशिष्टप्रत्यायकत्वादिति तत्त्वम् / स्यादेतत् यदि गोत्वविशिष्टे शक्तिस्तदा गौः शुक्लेत्यतो गोशुक्लयोर भेदप्रत्ययो न स्यात् तस्यान्वयरूपस्याशक्यत्वात् / न च शब्दादशक्यमपि भासतेऽति प्रसङ्गात् / उच्यते / गोशक्तं पदमेव गवान्वयं बोधयति / गव्ये वेत्यादि / गौरवादिति-यद्धर्मविशिष्टे वृत्तिग्रहस्तेन रूपेणोपस्थितेः शाब्दबोधस्य च नियमसंभवाल्लक्षणां विना लक्ष्यतावच्छेदकस्येव शक्ति विनैव शक्यतावच्छेदकस्य बोधसंभवेन तत्र शक्तेः . कल्पनेऽप्रामाणिकगौरवादिति भावः / शक्यतावच्छेदकत्वं तु स्वरूपसंबन्धविशेषरूपं न शक्तिसाधकम, तत एव न शक्त्यैक्ये शक्यतावच्छेदकभेदेन पर्यायभेदानुपपत्तिः, एवं व जातेरशक्यत्वे व्यक्त्याकृतीत्यादिसूत्रमुपलक्षणं मन्तव्यम् / गोत्वावच्छेदकेनेति-गोत्वप्रकारेण शक्तिग्रहस्य गोत्वप्रकारेण शाब्दहेतुत्वादशक्यस्यापि गोत्वस्य शाब्दप्रवेशसंभवादित्यर्थः / यत्तु गोत्वविषयकगोपदशक्तिज्ञानत्वेन कारणता किंवा एतद्गोविषयकगोपदज्ञानत्वेनेति प्रत्येकविनिगमनाविरहाद्गवि शक्तिसिद्धिः, जातिशक्तिकल्पनं पर परमतेऽधिकं यदि च प्रत्येकगोव्यक्तिशक्तिज्ञानं गोत्वप्रकारकशब्दत्वावच्छिन्ने न कारणं व्यक्त्यन्तर शक्तिज्ञानादपि गोत्वप्रकारक शाब्दबोधोदयेन व्यभिचारादिति विभाव्यते, तदा न व्यक्तिशक्तिसिद्धिरिति साधुर्मीमांसकानां जातिशक्तिवाद इति नृसिंहेनोक्तं तच्चिन्त्यम् , समानप्रकारकत्वेन हेतुहेतुमद्भावादेवाशक्याया अपि जाते नोपपत्तावुक्तयुक्त्या केवलव्यक्तिशक्तिपक्षस्यैव युक्तत्वादिति दिग् / नव्यतरमतमेतद् / वस्तुतः समानविषयत्वेनैव शक्निग्रहस्य हेतुत्वाद्वादिपदाज्जात्याकृतिविशिष्टस्यैवानुभवादृयक्तिवज्जात्याकृत्योरपि शक्तिः; आकृती जातौ च शक्यतावच्छेदकता व्यासज्यवृत्तिः; आकृतेर्विजातीयावयवसंयोगरूपायाः संबन्धः सामानाधिकरण्य, जातेः समवायः; सम्बन्धे द्वयांशेऽपि शक्तिः / न चैवं सम्बन्धांशस्यापि प्रकारतापत्तिः शक्तिग्रहे पदार्थस्मृतौ च सम्बन्धस्य 1. * एतत् चिह्नमध्यवर्ति पाठोऽसंलग्नो भाति / x गोत्व प्रत्यायकत्वादि च तत्त्वम् /