________________ 22 न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका शक्तिसंग्रहेऽपि गोत्वत्वेनैव स्मरणात्, नीरत्वेनोपलक्षिते लक्षणाग्रहात् तोरत्वेनेव; गोपदं गोत्ववदिति शक्तिग्रहस्त्वसंभवी समवायस्याश्रयतादात्म्याभ्यामेव जात्यादौ निरवच्छिन्नप्रकारताकमतेर्मिश्रादिसिद्धत्वादिति / किंच विशिष्टसम्बन्धिज्ञानं विना कथं गोत्वादिविशिष्टस्मृतिः विशिष्टस्मृति विना च कथं विशिष्टशाब्दबोधः ? / एतेन ज्ञानशक्तिपक्षे गोपदं गोत्वज्ञाने शक्तमिति शक्तिज्ञानमपि प्रत्युक्तं ततः कथंचिद्गोत्वस्मृतावपि विशिष्टस्मृत्यसंभवादिति स्वमतमुपसंहरति-तस्मादिति-तथा च गोत्वे तत्समवाये गवि च शक्तिरित्यर्थः / इत्थं च गोपदात्तादृशाकृतिविशिष्टगोबोधो भवस्वितोच्छारूपशक्तिज्ञानत्वेनैव हेतुत्वं तादशाकृतिविशिष्टगोशाब्दत्वेनैव कार्यत्वं यस्य यस्य विषयस्य शाब्दे प्रवेशस्तत्र तत्रैव शक्त्यभ्युपगमात् / अत एव व्यक्त्याकृतिजातयस्तु पदार्थ इत्यक्षपादसूत्रं संगच्छते-नचेति उक्तदोष:संकेतज्ञानाविषयीभूतव्यक्तिभाने घटशब्दात् पटादिबोधापत्तिरूपः / सामान्यलक्षणानङ्गीकारे त्वाहअस्तु वेति-अन्यगोबोधानापत्तिः-शक्तिमहाविषयीभूतगोबोधानापत्तिः / अतिप्रसंगः-घटादिपदास्पटादिभानापत्तिरूपः, शक्तिज्ञानाविषयत्वाविशेषादिति भावः / गोत्वविशिष्टेति-शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वेनैव कार्यकारणभावः / अपूर्वव्यक्तिमानं तु योग्यताबलादित्येवमतिप्रसंग इति भावः / इति सम्प्रदायविद इति / नन्वयं निष्कृष्टो गुरुमैतसंप्रदाय एव तन्मते गोर्गोपदशक्त्या गोपदं गोज्ञाने शक्तमित्याकारकशक्तिग्रहतः स्मरणशाब्दबोधयोर्गोत्वप्रकारकयोरुपपत्तेः / समानविशेष्यकस्यातन्त्रत्वेनापर्व गोभानार्थ सामान्यलक्षणाया अकल्पनाच्छक्तिग्रहस्योदबोधकीभूतस्य स्मृति प्रतिसमानप्रकारकन्वेन हेतुत्वेऽपि अनुभवस्य समानविशेष्यकत्वेनैव तथात्वात् , स्मृतेरगृहीतग्राहित्वेन प्रामाण्यसंभावनाया अप्ययोगादिति चेत्-न, शाब्दबोधविषयव्यक्तेः प्राक् वृत्त्या प्रकृतिपदादनुपस्थितौ तत्र विभक्त्यर्थसंख्याकर्मत्वाद्यनन्वयप्रसंगात् / तदन्वये तस्या हेतुत्वात् व्यक्तिवाचकपश्वादिपदे तथैव कल्पनात् / न चास्तु पदार्थस्मृतिशाब्दबोधयोरपि समानविशेष्यकत्वं तद्बोधकीभूतशक्तिग्रहस्य तु नेतिवाच्यम् तत्प्रकारेण यव्यक्तेः सम्बन्धिज्ञानं तद्वयक्तेरेव स्मरणस्यानुभविकत्वात. अपर्वव्यक्तिस्मृतिहेत्वनुभवार्थ सामान्यलक्षणाया अवश्यो जीवनात् / शक्तिग्रहजन्यस्मृतेरेव शाब्दबोधहेतुत्वे शक्तिग्रहार्थमपि तत्सिद्धेः, अनुमानादिना तदुपगमे व्याप्तिस्मृत्यादिकल्पन एव गौरवात् / इत्थं च स्वविषयत्वेन हेतुतात्मकशक्तिग्रहजन्यशाब्दबोधविषयत्वरूपशक्यत्वस्य व्यक्तावप्यप्रत्यूहत्वात् 'मितिमात्रादिविषयत्वेन वा हेतुत्वादिहोक्तातिप्रसंगभंगस्य समानप्रकारतया 1. गुरुमत शन्देन प्रभाकरो बोद्धयः /