________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका न च निगर्वोक्तमपि युक्तं व्यक्त्यंशबोधे दृष्टचरशक्याश्रयत्वस्य प्रयोजकत्वकल्पनातो जात्यंशबोधे प्रयोजकत्वेन क्लुप्तस्य शक्तिज्ञानस्यैव व्यक्तिविषयकत्वस्वीकारौचित्यादन्यथा शक्त्याश्रयतयाकाशस्यापि शाब्दप्रसंगात् इत्यस्वरसादाह मूलम्-यद्वा जातिशक्तिरेव व्यक्ति बोधयति / न चान्य(शब्द)शक्त्याऽन्यबोधनेऽतिप्रसङ्गः गोत्व शक्तं हि पदं गोत्वविशिष्टं बोधयतीत्यनति प्रसङ्गात् / अन्यथाऽनुपपरया तथैव कल्पनादिति / तदपरे न क्षमन्ते / तथा सति गोत्वमस्तोत्यतोऽपि गोत्वविशिष्टप्रत्ययापत्तेः / तस्माद्गोत्वविशिष्ट एव शक्तिः। नचोक्तदोषः गोत्वसामान्यलक्षणया सकलस्य गोरुस्थितौ सर्वत्र व गवि शक्तिग्रहसम्भवात् / अस्तु वा एकत्रैव गवि शक्तिग्रहः / नचान्यगोवोधा नापत्तिः अन्यशक्तिबहादन्यव्यक्तिबोधनेऽति प्रसङ्ग इति वाच्यम् / गोत्वविशिष्टशक्तिग्रहो गोत्वविशिष्टप्रत्यायक इत्येवमनतिप्रसङ्गादिति सम्प्रदायविदः / टीका-यद्वेति-जातिशक्तिरेवेति-तथा च सैव सदैव तेनैव ज्ञाता वाऽज्ञाता च प्रयोजिका ज्ञाता जात्यंशेऽज्ञाता व्यक्त्यंशे इति प्राचां प्रभाकराणां कुब्जशक्तिस्वीकारप्रयासो निरस्त इति भावः / __न चान्यशक्त्येति-व्यक्तेरशक्यत्वे जातिशक्त्यैव व्यक्तिज्ञानात्तद्भानेऽशक्यत्वाविशेषाद्गारिव पटादेरपि भानं स्यादित्येतन्न वाच्यमित्यर्थः / कुत इत्यत आह-गोत्वशक्तिमिति-गोत्वविषयकगोपदशक्तिज्ञानत्वेन गोत्वप्रकारकगोविशेष्यकशाब्दत्वावच्छिन्ने हेतुत्वकल्पनादित्यर्थः / .. नैयायिकमतमुपदर्शयितुं जात्युपस्थापकपदं व्यक्तिशाब्देहेतुरित्येतन्मतं नियूढं मत्त्वा दूषयति-तदिति-तत्प्रागुक्तमेव मतम् / अपरे नैयायिका न क्षमन्ते-तथा सतीतियथाश्रुते तन्मते नैष दोषः संभवति गोत्वविषयकगोपदशक्तिज्ञानत्वेनैव कारणताया उक्तत्वात, गोत्वोपस्थापकपदस्य त्वेकस्याभावाद्नात्वोपस्थापकपदज्ञानत्वेन हेतुताया वक्तुमशक्यत्वादिति ध्येयम् / ____ वस्तुतो गोत्वविषयकपदशक्तिज्ञानत्वेनैव हेतुत्वमिति पक्षेऽयं दोषः तद्गापदस्य विशेष्यं विना विशेषण इव गोत्वपदस्य विशेषणं विना विशेष्य एव शक्तिसंभवात् / एतेन गोपदस्य गोत्वे निरवच्छिन्ना शक्तिः निर्धर्मिकतावच्छेदककशक्तिग्रहस्य शाब्दबोधानङ्गत्वे गोत्वत्वेनोपलक्षिते वा सा गृह्यते / गोत्वपदस्य तु गोत्वविशिष्टे / अस्तु वा गोपदं शुद्धगोत्ववदित्याकार एव शक्तिग्रह इत्यपास्तम् ; विनिगमकाभावेन गोत्वपदेऽपि तादृशशक्तिसंभवात् / गोत्वत्वेनोपलक्षिते * एतचिह्नमध्यवर्तिपाठोऽसंलग्नो भाति /