________________ न्यायसिद्धान्तमअरोशब्दखण्डटीका वा संस्कारजनकत्वे ततो जातिमात्रस्मरणमिति गोत्वं गां विनाऽनुपपन्नमित्यर्थापत्या गो: सिद्धिरिति वाच्यम् शब्दात्तथानुपस्थितेः देशतः कालतश्च गोत्वस्य गां विना सत्त्वात् / तादात्म्येन गोत्वस्याधेयतया गोव्यापकत्वसंभवेsiप तादृशव्याप्त्यादिस्मरणं विना, शाब्दानुपपत्तगुरोरिख भादृस्य प्रत्यक्षनिर्विकल्पासत्त्वे तादृशस्मृतेरसंभावितत्वात् / भट्टमते श्रुतार्थापत्तिव्याघातेन पदानुपस्थितस्य शाब्दप्रवेशायोगात्, कर्तुराक्षेपस्यापि प्रथमान्तपदोपस्थाप्यत्वस्यैव युक्तत्वाद्भावनान्वयानुरोधात् प्रकृतेऽपि विभक्त्यर्थसंख्याकर्मत्वायन्वयार्थ प्रकृत्युपस्थाप्यताया एव युक्त वात्प्रकृतितात्पर्यविषय वस्य गौरवेणातन्त्रत्वात्, वहन्यादिपरे धूमोऽ. स्तीत्यादौ व्यवहिततात्पर्य विषये तदन्वयापत्तेश्चेति दिग / भासम्मताक्षेपपदार्थनिराकरणपूर्व गुरुसम्मताक्षेपपदार्थमाह-तस्मादित्यादि-तस्मात्,' अनुपपत्तिज्ञानमन्तरेणापोत्युक्तयुक्तः शाब्दत्वस्यार्थापत्तित्वयाप्यत्वाभावादित्यर्थः / समानेतिजातिभासकशाब्दसमान-सामग्रीकवित्तिवेद्यत्वमित्यर्थः / शाब्देत्यनेनायं स्थाणुर्वा पुरुषो वेत्यत्र जातिभानं विनाऽपि व्यक्तिभानाददोषः / इदमेव विशदयति-यावती हीति-जातिधी:-जाते: शाब्दधीः / एतदनन्तरं तावतीति पूरणीयम् / व्यक्तेलामो-व्यक्तिभाननैयत्यं शाब्दे इयमेव जातिशाब्दे व्यक्तिविषयतानयत्यमेव जातिभानेति-जातिशाब्देत्यर्थः / तथा च जातिमानसामग्री जातिशक्तिज्ञानरूपैव व्यक्तिबोधिकेत्यर्थः / जातिशक्तिमदेव पदं जाति-व्यक्ती बोधयति जातिबोधे शक्तियक्तिबोधे तु स्वरूपसच्छक्याश्रयत्वं नियामकमिति निगर्वः / अथ ज्ञाने शक्तिः पदानां शक्यत्वात् , नह पदेनार्थः क्रियते किन्तु तदज्ञानं, तथा च यस्य ज्ञाने शक्तिस्तच्छक्यं, जातिव्यक्त्योरुभयोरपि ज्ञामे च शक्तिरिति जातिवद्व्यक्तिरपि किं न शक्येति चेन्न, स्वविषयत्वज्ञानशक्तिकपदज्ञानजन्यज्ञानविषयत्वस्यैव शक्यत्वरूपत्वात्, जातिविषयत्वेन शक्तिज्ञानमेव तथेति जातिरेव शक्या न तु व्यक्तिविषयकत्वं तथा गौरवात् / शक्यज्ञाननियतविषयत्वादेव शक्यत्वे तु स्वरूपमितिमातॄणामपि शक्यत्वापत्तेः / इत्थं च जातिव्यक्तिज्ञानजनकत्वादुभयत्रैव शब्दशक्तिः परं जात्यंशे साक्षात् व्यक्त्यंशे स्वरूपसतीति कुब्जशक्तिवादः / अत्र व्यक्त्यंशे स्वरूपसतीति, अस्य व्यक्तिविषयकत्वावच्छिन्नकारणताशून्येत्यर्थान्न कोऽपि दोष इति / ननु जातिभासकशाब्दसमानसामग्रीकवित्तिवेद्यत्वं व्यक्तेरसिद्धं गोत्वाद्यग्रहेऽपि द्रव्यादिपदेन गवादिग्रहात्; जातिपदेन गोत्यादिग्रहेऽपि गपाद्यग्रहाच्च / कथंचित्तत्स्वीकारे गोगोत्ववैशिष्टयानीति बोधः स्यान्न तु गोत्वप्रकारको गोबोधः / इतोऽपि प्रत्यक्षेण ग्रहणे कथंचित्तुल्यवित्तिवेद्यतापक्षोप्यपास्तः / वैशिष्टयेन तुल्यवित्तिवेद्यत्वे च निर्विकल्पकोच्छेदापत्तेरिति / 1 निकृष्टोऽयमित्यभिप्रायः / - - -