________________ न्यायसिधान्तमञ्जरोशब्द खण्डटीका न्यायादुभयत्र व्युत्पत्तियोगादेकस्याऽबलवत्त्वात्तत्र शक्तिनिश्चयः, यथा 'यवमयश्चरुर्भवति' 'वाराही चोपानत्' 'वैतसे कटे प्राजापत्यं धिनोती'त्यत्र यववराहवेतसशब्दानां कवायसजम्बुषु लेच्छादीनां दीर्घशकशूकरवञ्जुलेष्वार्याणां व्यवहारात् यवेनेव कग्वाऽपि चरोर्वराहचर्मणेव काकचर्मणाऽप्युपानहो वजुलवल्कलैरिव जम्बूवल्कलैरपि कटस्य संभवाच्च / मुख्यार्थानध्यवसाये वसन्ते सर्वशस्यानां, जायते पत्रशातनम् / मोदमानाश्च तिष्ठन्ति. यवाः काणशशालिनः // वराहं गावोऽनुधावन्ति, अप्सुजो वेतस इति वाक्यशेषैर्विरोधान्म्लेच्छव्यवहारनिरासे निष्प्रतिपक्षार्यव्यवहारात् / नन्वस्तु कङ्ग्वादावेव शक्ति दीघशूकादौ वाक्यशेषात्तापर्यनिश्चये लक्षणेति तन्न, कङ्ग्वादौ शक्तिकल्पनेऽनादिप्रयोगोऽपि कल्पनीय इति गौरवात्। शक्तेरनादिप्रयोगनियत्रितत्वेन तत्कल्पनाध्रौव्यात् , दीर्घशूकादौ तु वेदरूपोऽनादि प्रयोगः क्लुप्त एवेति शक्तिमात्रकल्पने लाघवात् / ____ अथ गोरुत्कटं सादृश्यमेवमेव, यथाकथंचित्सादृदयं तु वराह इव काकेऽपीत्यनियामकमेतदिति चेत्-न, काकवराहयोर्मध्ये वराहस्योत्कटसादृस्यादिति दिक् / एवमन्यदप्यूह्यम् / . मूलम्--स्यादेतत् / द्वयोर्व्यवहारं पश्यता सङ्केतो ग्राह्यः ! कथं तयोरेव संकेतग्रहः / अन्ययोर्व्यवहारादितिचेत्-न, अनवस्थापत्तेः / अनादित्वादियमिष्टैवेति चेत्-न / सर्गादौ तदसंभवात् / प्रलये मानाभावात्सर्गादिरेवाऽसिद्ध इति चेत्-न / कार्य्यद्रव्यानधिकरणकार्याधिकरणकालस्य खण्डमलयतया प्रसिद्धस्याऽऽगमसिद्धत्वात् ततस्तव्यव हार इति / टीका-द्वयोः प्रयोज्यप्रयोजकवृद्धयोः, अन्ययोः तत्पूर्वकालीनप्रयोज्यप्रयोजकवृद्धयोरित्यर्थः / / अनादित्वादिति-अनाद्यनवस्था न दोषायेति भावः / सर्गादौ-सृष्टयादिकाले तदसंभवात्प्रयोज्यप्रयोजकवृद्धयोरसंभवात् / प्रलये-खंडप्रलये / आगमेति-ब्राह्मवर्षशतपर्याप्तायुषो ब्रह्मणो देहत्यागकाले संसारेण खिन्नानां निशि विश्रामार्थमीश्वरसंजिहीर्षासमकालं शरोरेन्द्रियनिमित्ताखिलकर्मणां वृत्तिप्रलयनिमित्तादृष्टेन वृत्तिनिरोधे तीरभूतेश्वराय ? प्रलयवदात्मसंयोगजैरणुकर्मभिविभागद्वारा शरोरेन्द्रियारम्भकाणुध्वंसे तेषां परमाण्वन्तो विनाशस्तथैव पृथिव्युदक-ज्वलन-पवनानामप्युदके सति पृथिव्याः, ज्वलने सत्युदकस्य, पवने सति ज्वलनस्य विनाशः, ततः प्रविभक्ताः परमाणवो न्या. सि. 3