________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका दोधूयमाना, धर्माधर्मभावनानुविद्धा आत्मान आकाशादयश्चावतिष्ठन्ते तावन्तमेव कालं अयमेव खण्डप्रलयः पुनः सृष्टिरित्यर्थस्यागमसिद्धत्वादित्यर्थः / इदमुपलक्षणम्, अनुमानमपि प्रमाणं द्रष्टव्यं कालकपालयोरवृत्तिघटपागभावः कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिः अभावत्वात् गगनवृत्तिघरात्यन्ताभाववदित्यतः पक्षधर्मताबलात् खण्डप्रलयसिद्धेरिति दिए / सर्गादौ प्रयोज्यप्रयोजकवृद्धासंभवमाशङ्कितं समाधित्सुराह-- मलम---उच्यते सर्गादौ भगवानीश्वरः शरीरद्वयं परिगृह्य तथा व्यवहरति ततस्तद व्यवहाराद् बालः पूर्ववत् संकेतं गृह्णातीति किमनुपपन्नम् / ईश्वरे एव कि मानमिति चेत् , सर्गादौ व्यवहारान्यथाऽनुपपत्तिरेव / ननु पूर्वसर्गसिद्धसर्वज्ञत्वान्मन्वादय एव व्यवहारप्रवृत्तिहेतवः सन्त्वितिचेत्-न, / तेषां सर्वज्ञत्वे मानाभावात् / व्यवहारान्यथाऽनुपपत्तिरेव मानमिति चेत्-न, पूर्वसर्गव्यवहारस्यैवमप्यनुपपत्तेः। तत्राप्यन्य एव कल्प्यतामिति चेत-न, प्रतिसर्ग भूयस्यां तथा कल्पनायां गौरवात् / अस्त्वेक एव सर्वत्र मूलमिति वेद स एवास्माकमीश्वर इति दिक् / टीका-उच्यत इति सर्गादौ ईश्वरः शरीरद्वयं परिगृह्य प्रयोज्यप्रयोजकवृद्धतां गच्छन् बालस्य शक्तिमादौ ग्राहयतीति गर्भाधः / परिग्रहार्थः क इति चेत ! व्युत्पाद्यप्राण्यदृष्टसहकृतस्बेच्छोत्पादितत्त्वं तदुक्त मुदयनाचार्यैः-शरीरमाध्ये कर्मणि शगरस्यापि ग्रहणमिति 'भूतो न शरीरं प्रविश्येवेश्वरस्तथा वदतीति भूता एव वदन्ति भूतस्य शरीरेन्द्रियप्रवेशसंभवेऽपोश्वरस्य प्रवेशनिर्वचनादिच्छादेश्च सर्वत्रातिप्रसक्तत्वादिति दिग् / अन्यथानुपपत्तिरेवेति-यद्यप्यन्यथानुपपत्तिनं मानं तथाऽप्यन्यथानुपपत्तिप्रसूतव्यतिरेक्यनुमानमित्यर्थः / प्रयोगश्च तस्य-"आद्यशक्तिग्रहः प्रयोज्यप्रयोजकतृद्धव्यवहाराधीनः आद्यशक्तिमहत्वात् यन्नैवं तन्नैवं यथा घट' इति व्यतिरेकिणो द्रष्टव्यः / तेषां-मन्वादीनां, मानाभावादिति-कपिलमन्वादीनां नित्यसर्वज्ञत्वे ईश्वरत्वाविप्रतिपत्तेर्नाममात्रेऽ* विवादात् परं वस्तुतो नैवम्भूतास्त इति भावः / मानं-सर्वज्ञत्वे मानम् / एवमपि तेषु सार्वश्येऽपि / तथा च पूर्वम् कपिलमन्वादीनामेतेषामभावात् कथं व्यवहारः प्रवृत्त इति भावः / तत्राप्यन्य इति-कपिलमन्वादिरन्यः सर्वज्ञः कल्प्यतामित्यर्थः / एक एवेति-कपिलमन्वादिरिति योज्यं, सर्वत्रेति-अत्र सर्गादाविति शेषः / मूलं -व्यवहार-प्रवृतौ कारणं, स एवेति तथा च नाम्नि विवादो न तु नामिनोति भावः / इदमुपलक्षणं-क्षिति: सकर्तृका, कार्यत्वात् , घटवद्इत्याद्य नुमानामागमानां च बहूनामीश्वरसाक्षित्वात . इति / परमतमुत्थाय दूषयितुमिच्छुः शङ्कते--- 1. मुद्रितपुस्तके भगवान्' इति पदम् / 2. अत्र पाठः संदिग्धः / 3. विवादादिति' पदं विशेषोचितम् /