________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका ___ न चैवं गंगापदे प्रमाणत्वसंभूयान्वयबोधजनकत्वरूपैकवाक्यत्वरक्षायै लक्षणेति व्याहत, स्यादिष्टत्वात् , प्रमाप्रयोजकत्वसंभूयान्वयबोधप्रयोजकत्वरक्षार्थमेव लक्षणाकल्पनं युक्तमिति प्राचीनाभिप्रायादिति चेत्-न, प्रतियोगित्वांशस्य सम्बन्धत्वेन तज्ज्ञानस्यातन्त्रत्वात् , स्वरूप सत्तादृशप्रतियोगित्वस्य कादाचित्कस्याव्यावर्तकत्वात् , तत्कालीनत्वप्रवेशे महागौरवात्, साक्षात्परम्परासाधारणत्वस्य दुर्वचत्वात् , तीगदेः पदादनपस्थितस्यापि तदन्वयप्रतियोगिशक्तपदज्ञानाच्छाब्दबुद्ध्यापत्तेश्च तच्छाब्दबोधे शक्तिवाक्यासम्बन्धान्तरेण (?) पदज्ञानजन्यतदुपस्थितहेतुत्वस्य वाच्यत्वाच्छाब्दत्वावच्छिन्ने पदज्ञानत्वेन वर्णज्ञानत्वेन वा कारणत्वाच्छक्तस्य लाक्षणिकस्य वाऽविशेपेण वानुभावकत्वमिति नव्यमतस्यैव युक्तत्वात् , एतदनुसारेणैव प्रकृतेऽतिप्रसंगभंगात् शक्तिकल्पनस्याव्याहतत्वादिति दिग् / अनुमितो व्यासिज्ञानत्वेनेव शाब्दबोधे शक्तिज्ञानत्वेन हेतुत्वाज्जनकतावच्छेदकशक्तिमत एवानुभावकत्वमित्यन्ये / शक्तिमत्तया ज्ञातस्यैवानुभावकत्वम् , अपभ्रंशसाधारण्यादित्यपरे / व्यापारीभूतोपस्थितावपि शक्तिरेव निवेश्या न तु तत्परम्परासम्बन्धोऽपि गौरवात् / घटादिपदाच्छताश्रयत्वसम्बन्धेनोपस्थितस्य नभसोऽपि शाब्दबोधापत्तेश्वति तु वयम् / मूलम्- तदनन्तरं च क्वचिद्वयवहारात् क्वचिदुपमानात्क्वचिच्छब्दात्क्वचिद् व्याकरणकोशादेरितिसंक्षेपः। टोका-तदनन्तरं-आधशक्तिग्रहानन्तरं, क्वचिदुपमानात्शक्तिग्रहः-यथातिदेशवाक्यार्थज्ञानसहकृताद् गोसादृश्यविशिष्टपिण्डदर्शनात् गोसदृशे गवयपदस्य, शब्दात् वाक्यशब्दात्. क्वचिद्वयाकरणकोशादेरिति-व्याकरणात् इति-हरिपदादेः पश्वादौ, कोशात्-'घटः कलश' इत्यादेघेटादौ कलाशादिपदानाम्, आदिना-विवरणप्रसिद्धपदसामानाधिकरण्यवाक्यशेषपरिग्रहः / विवरणाद् यथा-पचति-पाकं करोत्यतः आख्यातस्य यत्ने, प्रसिद्धपदसामानाधिकरण्याद् यथा इह सहकारतरौ मधुरं पिको रोतीत्यतः पिकपदस्य कोकिले, यद्यप्येतदनुमानविधयोपमानविधया वा शक्तिप्राहकं सहकारतरौ मधुररवकर्ता पिकपदवाच्यः, अयं च तादृशरवकर्ता ततः पिकपदवाच्य इत्येवम् “अयं पिकपदवाच्यः, तादृशस्वकर्तृत्वात् यन्नैवं तन्नैवमित्येवं" वा तत्र शक्तिमहात् / तथा च शक्तिग्रहोहिं]व्याकरणोपमान-कोशाप्तवाक्यव्यवहारतश्च / वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः / / इत्यादावुपमानादेः पृथगुक्तत्वात्पौनरुक्त्या (?) तथाप्युपमानपदस्य तदितरोपमानत्वाददोषः इति वदन्ति / वाक्यशेषाद् यथा क्वचिद्वयवहारद्वैविध्ये 'अन्यायश्चानेकार्थत्वम्' इति 1. 'पौनरुक्त्यम्' इति पाठः साधुः / 2. उपमानत्वाद् उपमानपरत्वादिति भावः /