________________ न्या न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका . 15 - मूलम् - क्लुप्ते च तस्मिन्नतिप्रसङ्गभङ्गाय तज्जननानुकूलं सङ्केतरूएं सम्बन्ध कल्पयति, इति किमनुपपन्नम् / टीका-कथं-केन मानेनेत्यर्थः / तत्र केषांचिदुत्तरं खण्डयति उपमानेति-तस्य चेतिवाक्यार्थज्ञानस्य चेत्यर्थः / शक्तिग्रहमूलकेति-तथा च तदपि शक्तिज्ञानं चेदुपमानादनवस्थाप्रसंगो नो चेत् शक्तेहिकान्तराभावादग्रह एव न स्यादित्यर्थः / व्यवहारादिति-व्यवहारोनयनानयनादि क्रियारूपः / केनचिदुक्तः प्रयोजकवृद्धेनोक्तः / कश्चन प्रयोज्यवृद्धः तदर्थ-प्रयोजक. दवावयार्थ / घटमानयति-घटानयनानुकूलचेष्टावान् भवति / तच्चेति-घटानयनं चेत्यर्थः तया क्रियया घटानयनानुकूलक्रिययेत्यर्थः / तस्य-प्रयोज्यवृद्धस्य प्रयत्नम् घटानयनगोचरप्रयत्नमित्यर्थः / तस्य ज्ञान-प्रयोज्यवृद्धस्य घटानयनगोचरज्ञानं, तस्य-घटानयनस्येति व्याख्यायामपि प्रयोज्यवृद्धार्थकतत्पदस्य प्राक्तनस्यैवानुषङ्गेनो णो]पपत्तेः शेषकल्पनं नृसिंहस्य जघन्यम् , अनुमिनोति, बाल इति योजनीयम् / तथानिश्चयात्--बालेन स्वीयस्तनपानादिगोचर प्रयत्ने समानविषयकज्ञानव्याप्यत्वावधारणात , तद्धत्वाकाङ्कायां-ज्ञानहेतुत्वाकाङ्क्षायां,-शब्दमेव ज्ञायमानशब्दमेव कल्पयति ज्ञानहेतुत्वेन निश्चिनोति / आवापोद्वापाभ्याम्-अन्वयव्यतिरेकाभ्यां, कल्पयति, बाल इति प्राग्वत् , तस्मिन्-कार्यकारणभावे / - नन्वेवं ज्ञायमानघटादिपदात् कर्मत्वादीनामुपस्थितिः स्यादत आह-अतिप्रसंगेति-तथा * च तत्शक्तज्ञायमानपदत्वेन कारणता तच्छाब्दत्वेन कार्यतेति न कोऽपि दोष इति नृसिंहस्तचिन्त्यम् / गङ्गापदजन्यतीरशाब्दबोधे व्यभिचारात्; तेन स्वशक्यशाब्दत्वं घटादिपदज्ञानस्य कार्यतावच्छेदकमित्यपि निरन्तं कलशादिपदादपि घटादिशाब्दबोधे व्यभिचाराच्च / अथास्तु तच्छाब्दत्वावच्छिन्ने तदन्वय प्रतियोग्युपस्थापकपदज्ञानत्वेन हेतुत्वं यथाकथंचिदुपस्थापकत्वस्यातिप्रसंजकत्वात / वृत्त्या तत्त्वोक्तौ गौरवात् , शक्त्यैव तत्त्वं वाच्यमिति शक्तिसिद्धिः / लाक्षणिकाननुभावकता च गङ्गापदात्स्मृतवाक्येनान्वयानुपपत्तिज्ञाने, पुनर्गङ्गापदाच्छक्यस्मृतौ स्मृतशक्यात् स्वशक्येन तीरस्मृतौ गंगापदादेव तच्छाब्दसंभवात् परम्परासम्बन्धस्यस्मारकत्वकल्पने गौरवात् , शक्त्या तदुपस्थापकपदज्ञानत्वेनेत्युक्तौ च गंगादिपदात्तोरादिबोधे व्यभिचारात् अन्वयप्रतियोगीति / इत्थं च सप्तभ्यास्तोरबोधकत्वान्न दोषः / तदन्वयप्रतियोगित्वं च तन्निष्ठविषयतानिरूपितसांसर्गिकविषयतानिरूपकविषयताश्रयत्वं तेन गंगा घोषवतीत्यादेः संग्रहः / इदं च साक्षात्परम्परासाधारणं तेन नीलादित्यादिहेत्ववयवस्थपदद्वयस्य लाक्षणिकत्वेऽपि प्रतिज्ञास्थशक्तपदानामनुभावकत्वं बोध्यम् /