________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका तत्र तत्र तत्तदर्थे शक्तिः, समवायवच्च तस्याः सम्बन्धत्वं क्वचिदेव कस्यचित / तादृशेच्छासम्बन्धेन तत्तदर्थवत्त्वमेव तत्तच्छक्तत्वमिति फलितं, तत्तदर्थवत्त्वप्रकारिकेश्वरेच्छैव च शक्तिः अन्यपदेऽन्यार्थकत्वाभावान्न तादृशीच्छा तदर्थवत्त्वनिर्णायकं च कोशादि / न चेश्वरज्ञानादिकमपि शक्तिः स्यादिष्टत्वादिच्छात्वस्याविवक्षितत्वात् / आधुनिकसंकेतस्येच्छात्वादिच्छैव तथेत्यन्ये / वैदिकशाब्दबोधे तात्पर्यज्ञानस्य हेतुत्वधोव्यात्तात्पर्यरूपेच्छैव शक्तिरिति नृसिंहस्तत्तुच्छं, लक्ष्यान्वयादितात्पर्यस्यापि तथात्वापत्तिः त्ते:] तन्निर्वाहिका हि वृत्तिनतु तदेवेति ग्रन्थकृद्वचनविरोधाच्च / अत्रास्माकं मनीषोन्मेषः, शाब्दबोधकारिणिभूतज्ञाने विषयतत्वावच्छेदिका शक्तिर्न तावन्निष्कृष्टाऽपि मिश्रोक्ता संगच्छते गौरवात् / ___ अनुपपत्तिज्ञानाजन्येत्यत्र मुख्यार्थान्वयानुपपत्तिनिवेशे मुख्यत्वस्य शक्यत्वरूपस्य निवेशेऽन्योन्याश्रयादेः / तुल्यन्यायादनुपपत्तिज्ञानजन्यबोधजनकत्वप्रकारिकेच्छाया अपि शक्त्यन्तरत्वेन लक्षणोच्छेदापत्तेः / स्वातन्त्र्यस्याप्यच्छिकत्वेनाव्यवस्थितत्वाच्च / नापि निरुक्तेच्छासम्बन्धेन पदवत्त्वरूपा, सम्बन्धतया ज्ञानस्यागृहोतस्यापि संभवेन शक्तिग्रहार्थमुपमानत्र्यवहाराद्यनुसरणवैयर्यप्रसंगात् / नव्यमते समवायस्येव निरुक्तेश्वरेच्छाया अपि भेदापत्तेश्च / नापि तत्तदर्थवत्त्वप्रकारकेश्वरेच्छैव, तत्तदर्थवत्त्वस्य कोशादितो निर्णये ईश्वरेच्छान्तानुधावनस्य व्यर्थत्वादिच्छाया ज्ञानकृतिभ्यां विनिगमनाविरहस्य चोक्तत्वादेव / न चेच्छात्वमविवक्षितमिति भट्टाचार्योक्त समाधानमपि युक्तम् , एवं सतीश्वरीयत्वेनैव निवेशे ईश्वरीयत्वं समवेतत्वसम्बन्धेन संसारिभिन्नात्मवत्त्वमिति महागौरवात् , तस्मादुक्तजनकतावच्छेदकत्वेन सिद्धा शक्तिः पदार्थान्तर मित्येकदेशिमतमेव युक्तम् / हन्तवं शाब्दत्वावच्छिन्नं प्रति शक्तिज्ञानत्वेनैव हेतुत्वे लाघवादव्यवहितोत्तरत्वगर्भोपस्थितिशाब्दहेतुत्वद्वयकल्पने गौरवात् लक्षणाप्युच्छिद्यत इति चेत् , उच्छिद्यतां यदि नानुपपत्तिज्ञानजन्यशाब्दवैलक्षण्यमानुभविकम् , सर्वस्य सर्वार्थत्वेऽपि यत्रान्यसाधास्तवृत्तिगुणसजातीयगुणबोधनायाप्रमिद्धे प्रयोगस्तत्र लक्षणेति व्यवहारस्यैव तावतैवोपपत्तेः / / ___ यदि च लक्षणाव्यंजनाजन्यशाब्दबोधे वैलक्षण्यमानुभविकं तदा तत्तदनुकूलशक्तिभेदोऽप्यावश्यक इत्यादिकमुपपादितमलङ्कारचूडामणिविवरणेऽस्माभिः* मूलम्-स्यादेतत् / सोऽयं संकेतः कथं ग्राह्यः ? उपमानादितिचेत् , न, तस्य वाक्यार्थज्ञानमूलकत्वात् / तस्य च शक्तिग्रहमूलकन्वात् / उच्यते / प्रथमं शक्तिग्रहो व्यवहारात् / तथाहि घटमानयेति केचिदुक्तः कश्चन तदर्थ प्रतीत्य घटमानयति / तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयत्नम नुमिनोति / तेन च घटानयनगांचरप्रयत्नेन तस्य ज्ञानमनुमिनोति / स्वप्रयत्नेन तथा निश्चयात् / ततस्तद्धत्वाकांक्षायामुपस्थितत्वाच्छन्दमेव कल्पयति, तदनन्तरं च घटादिपदानां प्रत्येकमावापोद्वापाभ्यां घटपदं घटबोधजनकमिति कल्प्यते / *हैमकाम्यानुशासनस्य स्वोपज्ञअलंकारचडामणिटोकाया उपरि कृता टोका /