________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका ननु तथाप्युक्तस्थले व्यभिचार इत्युक्तमिति चेद् भ्रान्तोऽसि विशेषणतया तद्धीजनकत्वस्य तत्रावगाहनादित्याह- तन्न, “नेदं तद्धीजनकमिति" जानतोऽपि शाब्दापत्तेः, स्वातन्त्र्येण तद्धोजनकत्वज्ञानस्य च तत्प्रतिबध्यस्य तदानीमभावात् / उत्तरकालं मानसस्य तस्य कल्पने च निरुक्तजनकतावच्छेदकत्वज्ञानस्यापि तदा सुलभत्वात् / चिन्तामणिकृतस्तु आधुनिकचैत्रादि पदादर्थबुद्धौ संकेतज्ञानस्य हेतुत्वकल्पनादन्यत्रापि तस्यैव ? तस्यामाधुनिकसंकेतेन तद्धोजनकत्वानुमानानादपभ्रंशसाधारण्यात्तद्धीजनकत्वज्ञानमेव तच्छाब्दबोधहेतुरस्त्विति चेत्-न, जनकत्वस्य स्वरूपयोग्यतारूपत्वेऽतिप्रसंगात्, संकेतस्यैव जनकतावच्छेदकत्वेन तत् सिद्धेश्च फलोपधायकत्वस्य च प्राग दुयित्वात् , गुरुत्वात् , सर्वदाऽभावात् , शब्दार्थयोनित्यसम्बन्धानुपपत्तेश्चेत्याहुः / मूलम् -आधुनिक सङ्केतितानां चैत्रादिशब्दानों का गतिरिति चेत , 'द्वादशेऽहनि पिता नाम कुर्यादिति सामान्यतस्तस्यापोश्वरमाङ्केतितत्वमिति गृहाण / टोका-का गतिरिति-तत्रेश्वरेच्छारूपसंकेतज्ञानाभावादित्यर्थः / सामान्यतस्तस्यापीतिआधुनिकपित्रादिसंकेतितस्यापि / द्वादशाहकालीनपित्रुच्चारितनामत्वादिना नामवाच्यः शिशुरित्याकारकेश्वरेच्छयैवेश्वरेण तादृशश्रुतिप्रणयनादित्यर्थः / तथा च तत्रापोश्वरेच्छारूपः संकेतोऽस्तीति भावः / स्यादेतद्गावीपदाद्गोबर्बोद्धव्य इतीश्वरेच्छास्त्येव तथा च कथं तद्भमः ? तीरादौ च गङ्गादिपदबोध्यत्वप्रकारकेच्छास्त्येवेति लक्ष्यादावपि शक्तिः स्यादिति, अत्र मिश्राः-तत्तदर्थबोधकत्वप्रकारकेच्छयेश्वरेण स्वातन्त्र्येणोच्चारितत्वं तत्तदर्थे शक्तिः, आधुनिकसंकेतितवारणायेश्वरेणेति-'हेलय' इत्यपभ्रंशत्वशालिशब्दवारणाय वा स्वातन्त्र्येणेति / 'अन्यवक्तृकत्वेन तदुच्चारणाददोष इत्याहुः / ___ अत्र यद्यपि तादृशेश्वरेच्छाजन्योच्चारणविषयत्वमपत्रंशेऽपि गतमस्मदाद्युच्चारणस्यापीश्वरेच्छाजन्यत्वात् तादृशेच्छाप्रयोज्येश्वरीयकण्ठताल्वाद्यभिघातजन्यजातीयत्वं चाधुनिकसंज्ञाशब्देऽव्याप्तम् / न च 'द्वादशेऽह्नि पिता नाम कुर्यादि'त्यत्र नामत्वेनेश्वरोच्चारणसत्त्वाददोषः तर्हि 'नापभ्रंशित वै' इत्यत्रापभ्रंशत्वेनोच्चारणसत्त्वादपभ्रंशेतिव्याप्तेस्तथाप्यन्यावक्तृकत्ववन्निषेधाप्रतियोगित्वेनेत्यस्यापि स्वातन्त्र्येणेत्यस्यार्थत्वेनादोषात् / नाम कुर्यादित्यस्य तत्तात्पता तत्तत्तबोधकं तत्तन्नाम कुर्यादित्यर्थान्नाम्नः सर्वस्य विशिष्योच्चारणं न त्वाभ्रशारित्यन्ये / गं गणपतिमवितुं शीलमस्येति व्युत्पत्त्या गावीशब्दे तदुच्चारणसत्त्वेऽपि गोबोधनेच्छया तदसत्त्वाददोषः / तदर्थबोधकत्वं [च न तदर्थानुभावकत्वम् , अनुपपत्तिज्ञानाजन्यतद्बोधजनकत्वं वा तेन लाक्षणिकव्युदासः / एतेनैव वैदिकलाक्षणिके शक्त्यापत्तिरपि भूषणोक्ता निरस्ता / वस्तुतो यद् यदर्थबोधकत्वप्रकारित्वावच्छिन्नेश्वरेच्छााप (!) यत्र यत्र यत्पदार्थसम्बन्धः सा / . 1 तस्यैव हैतुत्वम् /