________________ न्यायसिद्धान्तमञ्जरोशब्दखण्डटोका नित्यवगत्य गावीशब्दमेव गोशक्तत्वेन प्रतीत्य व्युत्पादयतीति / अथ गावीशब्दस्य बोध्यत्वप्रकारकत्वावच्छिन्नेच्छा [ ? ] न शक्तिः किन्तु गोशब्दस्य, तत्त्वेन तु न पामरस्य ज्ञानमिति कथं शक्तिभ्रमः ? न च निरुक्तेच्छाया ईश्वरीयत्वभ्रम ईश्वर(मत)मजानतामपि शाब्दबोधादिति चेत्-न, शक्तिरपि शक्तित्वेन ज्ञाता न हेतुः, किन्त्वनुभवजनकतावच्छेद कधर्मत्वेनेत्यस्यानुपदमेव स्फुटोकरिष्यमाणत्वाद्गावीपदं तादृशधर्मवदिति भ्रमस्य सुघटत्वात् / संसर्गतयैव शक्तिधीहेतुत्वे तु गावीपदवत्त्वभ्रमो गवि न दुर्घट इति भट्टाचार्याः / अपि चापभ्रंशानां वृत्तिमत्त्वेऽर्थवदधातुरित्यादिना तदुत्तरमपि विभक्तिः स्यात् , किंच वेदस्मृतिगतपदानां गोणमुख्यताविवेकार्थ संस्कृतेष्वेव शक्तिरिति / न चैवं साधुभिर्भाषितव्यमिति विधेरेवापभ्रंशव्युदासेना पभ्रंशितवै' इत्यस्य वैयर्थ्य तस्य विधिप्राप्तानुवादकत्वात् / . दीक्षितानुसारी* तु संस्कृतजत्वं भाषात्वं वा न शक्यतावच्छेदकं किन्त्वानुपूर्वी सा चभिन्नभिन्नैव सर्वत्रेति घटकलशादिपर्यायेष्विव नैकेनापरान्यथासिद्धिरिति भाषायां शक्तिरेव / अत एव काव्यप्रकाशकारेण वा व्यस्य व्यञ्जकत्वे प्राकृतोदाहरणमप्यलेखि / आर्यम्लेच्छाधिकरणे भट्टरप्युक्तं 'प्रतिपादकतामात्रं म्लेच्छेष्व यवगम्यत' इति, गम्यार्थप्रतिपादकत्वं साधुत्वमपभ्रंशादावस्त्येव / 'नापभ्रंशितवै न म्लेच्छितवै' इत्ययं च प्रसक्तप्रतिषेधाय निषेधविधिरेव / यः शब्दो यत्र व्याकरणव्युत्पादितस्तस्यैव तत्र साधुत्वं तेनैव भाषणे धर्मजननमपभ्रंशादेश्च न यज्ञीयकर्मणि धर्मजननमित्येव तात्पर्यमिति प्राह / तच्चिन्त्यं, शुद्धापभ्रंशप्राकृतादीनामपि व्याकरणविशेषेणव्युत्पादनात् / इच्छोपगृहोतासाधुत्वस्य चातन्त्रत्वादिति यौक्तिकाः / यदपि मानाभावादित्यत्र विद्वच्छाब्दरूपफलाभावेन नापभ्रंशे संकेत इति भाव इति नृसिंहेन व्याख्यातं तदपि मन्दम् / विद्वच्छाब्दत्वस्य शक्तिज्ञानकार्यतानवच्छेदकत्वात् / षण्णामपि भावानामनादित्वेन प्राकृतसंस्कृतादिव्युत्पत्तिभेदेन विद्वत्ताया अपि नानात्वेनातन्त्रत्वात् पामरादीनां पामरमुख्यानाम् अर्थप्रत्यय इति-तेषामीश्वरेच्छारूपसंकेतज्ञानाभावादित्यर्थः / तेषामपीति-पामरादीनामीश्वरानङ्गीकर्त्तमीमांसकानां वेत्यर्थः / तथात्वेन ज्ञान-संकेतत्वेन ज्ञानं, वस्तुतः संकेतत्वेन शक्तित्वेन वा ज्ञानं न कारणं मीमांसकनैयायिकयोस्तदैक्याभावात् , किन्त्वनुभवजनकतावच्छेदकधर्मत्वेन, तथा ज्ञानं चोभयोरविशिष्टमिति न कश्चिदोषः / भूषणकारस्तु "इन्द्रियाणां स्वविषयेष्वनादियोग्यता यथा / अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा" // इति कारिकायां तद्धोजनकतावच्छेदकत्वेन ज्ञानस्यार्थप्रतीतिहेतुत्वे गौरवादाधुनिकदेवदत्तादिपदे इदं पदमेनमर्थ बोधयत्विति संकेताद्वोधनस्थलेऽवच्छेदकत्वेन ज्ञानस्य व्यभिचाराच्च तद्धीजनकत्वज्ञानमेव कारणं तद्धीजनकत्वमेव च शक्तिः / * अप्पयदीक्षितानुसारी /