________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका पिबेदि"त्यादौ विधिप्रतिषेधः सुघटः; तादृशव्यापारविषयत्वाभावस्य तत्र सत्त्वात् / निवर्त्तनैव वा तत्र नयोगाद् विध्यर्थः, उभयथाऽप्यनिष्टभावनात्वमर्थभावनायां योग्यतात्वेन लभ्यते, अनिष्टं च-नरकम् / अर्थवादोपस्थितनिषेधस्थले च कथमित्याद्याकाङ्क्षाविरहान्नेतिकर्तव्यताऽपेक्षा / आज्ञादी च यथा गजादिनिष्ठत्वं तथा प्रवर्त्तनाया विधिनिष्ठत्वं लभ्यत इत्यादि / तदिदमस्बिलमस्वरसेन निरस्यन्नाह . मूलम् -नैयायिकास्तु आवश्यकत्वात् सङ्केत एवाऽभिधा, न तु पदार्थान्तरं मानाभावात् / स च सकेतोऽस्मात्पदादयमर्थों बोद्धव्य इत्याकारिकेच्छा / हन्तैवं पामरादि सङ्केतिता अपि शब्दा अभिधायकाः स्युरितिचेत्-न, नहि सकेतमात्रममिधा किन्त्वीश्वरसङ्केतः / नचापभाषिते सोऽस्ति मानाभावात् / कथं तर्हि ततोऽन्वयबोध इति चेत् , शक्तिभ्रमादिति गृहाण / कथं तर्हि पामरादीनाभीश्वरमविदुषां मीमांसकानां चार्थ प्रत्ययः शब्दादिति चेत्-न, उच्यते / न, तावदीश्वरसङ्केतत्वेन तद्ग्रहः कारणं किन्तु सहकेतत्वेन / अस्ति च तेषामपि तथात्वेन ज्ञानम् टीका--नैयायिकास्त्विति-मानाभावात् संकेतभिन्नायां मानाभावादित्यर्थः / एवं च प्रवर्त्तनात्वज्ञानानुकूलैका, भावनात्वज्ञानानुकूलान्या, प्रवृत्तिशब्दाभिधोत्पत्त्यनुकूलाश्च तिन इति शक्तिपञ्चकं निरस्तं; व्यापारभिन्नस्येत्यादिकं चाप्रयोजकं व्याप्तिस्मृत्यादौ व्यभिचारात् / “राजाज्ञादितः प्रवृत्तावपीष्टसाधनताधीरेव हेतुः, तथापि प्रवर्तनात्वेन तदन्वयोक्तौ विशिष्टेटसाधनत्वस्याऽऽख्यातार्थे योग्यतात्वेनान्वये[य]ध्रौव्ये तदाक्षिप्तेष्टसाधनत्वबुद्धेरावश्यकत्वात्, अन्यथा विश्वजिदादौ फलकल्पनानुपपत्तेः / रोदनादिभाविमातृप्रवृत्तावपि बालः स्वेष्टसाधनताधीजन्यत्वमेवानुमिनोति, अत एव रोदनश्रवणेन प्रवर्तनाज्ञानेऽपि यस्या इष्टसाधनताधीः सैव प्रवर्तत इति / . किंच यदि विधि र्मा प्रवर्तयतीति प्रतीतिबलात्प्रवर्त्तनासिद्धिस्तदा धूमो मां प्रवर्तय. तीति प्रतीतिबलाद्भूमादिलिङ्गेऽपि प्रवर्तनापत्तिरिति न किंचिदेतत् / अधिकं मत्कृताष्टसहस्रीविवरणे / ननु भवन्मते संकेत एव कः ? अत आह-स चेति हन्तैवमिति एवम्-उक्ताकारकेच्छाया एव शक्तित्वे / पामरादिसङ्केतिताः गगरोपदादयः अभिधायकाः-घटादिप्रतिपादकाः / सङ्केतमात्रम्-इच्छामात्रं, सोऽस्ति-ईश्वरेच्छारूपः सङ्केतोऽस्ति / मानाभावादिति-व्युत्पन्नसाधुशब्द स्मृतेरव्युत्पन्नस्य शक्त्यारोपादपभ्रंशतो बोधसम्भवे तत्तद्देशादिभेदेनानन्तापभ्रंशशब्देषु शक्तिकल्पने प्रमाणाभावादित्यर्थः / - कथमारोप इति चेदित्थं, केनचिद्गोशव्दे प्रयोक्तव्ये प्रमादाद्गावीशब्दे प्रयुक्ते व्युत्पन्नस्तेन गोशब्दमुन्नीय ततो गां प्रतीत्य व्यवहृतवान् पार्श्वस्थश्च व्युत्पित्सुर्गावीशब्दादेवायं गां प्रतीतवा