________________ . न्यायसिद्धान्तमञ्जरीशब्दखण्डटोका ननु प्रवृत्तिहेत्विष्टसाधनताज्ञानादृते प्रवर्तनामात्रज्ञानेऽपि कथं प्रवृत्तिरिति चेत् , सत्यम्, 'स्वर्गकामो यजेते त्यादौ प्रथमतो लिङपदार्थयोरन्वयबोधः 'प्रवर्तनाविषयः कृतिरि'त्याकारो जायते, एकपदोपात्ततया धात्वर्थापेक्षयाऽनयोः प्रक्षत्यासन्यन्तरङ्गत्वात् / तदुक्तं 'विधीभावनयोः श्रुत्वा संगतिःपूर्वमिष्यत' इति / प्रवर्त्तनात्वविशिष्टस्य विषयतयाऽर्थभावनायामन्वये इष्टभावनात्वमिष्ट भावयतीति व्युत्पत्त्येष्टसाधनत्वरूपयोग्यता। तस्याशक्यस्यापि छिद्रेतरत्ववद्बोधः। कृतौ तदन्वयेऽपितक्रियागतमिष्टसाधनत्वं विना नेत्याक्षिप्ते क्रियेष्टसाधनत्वधीरपीति प्रवृत्तिर्नानुपपन्ना / तत आख्यातोपस्थितार्थभावना कि केन कथमित्यंशत्रयं क्रमेणापेक्षमाणा किमिष्टं कुर्या मित्याकाङ्क्षायांस्पष्टत्वेन तं करणत्वेनाध्यवस्यति, यागेनान्यत् भावयेदिति स्वप्रकृतिधात्वर्थेन प्रथममन्वयात् / भाव्यस्य च सामान्यत आक्षेपात् / तथा च यागकरणिकाऽन्य किंचिदिष्टफलकाप्रवृत्तिः प्रवर्तनाविषय इति धीः / तत्र किं तदित्याकाङ्क्षायां-स्वर्गकामपदसमर्पितमसिद्धतया साधनापेक्ष स्वर्गमेवार्थभावना भाव्यत्वेनाङ्गीकुरुते, श्रुतिवृत्या पदार्थाभेदः स्वर्गकामस्य भाव्यत्वेनोक्ते विशेष्यबाधे विशेषणे स्वर्गे पर्यवसानात् / तथा च यागेन स्वर्ग भावयेदिति फलितं; यत्र च समभिव्यातानुपस्थितिःफलं तत्र प्रकरणादिना, तेषामप्यभावेऽर्थवादेन विधिसापेक्षेण, तस्याप्यभावे 'विश्वजिन्'न्यायेन फलविशेषः कल्प्यते / यद्यपि पुरुषप्रवृत्तिरूपभावनानिष्पाद्यो यागस्तत्र न करणं तथापि स्वर्गफलावच्छिन्नभावनायां विशेषणकरणत्वेन करणत्वोपचारः / फलोद्देशप्रवृत्तकृतिविषयत्वमेव वाऽत्र करणत्वं दण्डेन घटं करोतोत्यादौ लोकेऽपि तथैव करणत्वव्यवहारात् / केनेत्यस्यापि किंविषयिणी कृतिः स्वर्ग साधयतोत्यन्ये / अत्र यागकरणत्वविशिष्टे लक्षणेति प्राञ्चः / वस्तुतः करणत्वं यागस्य सम्बन्धो वाक्यार्थः, अत एव ज्योतिष्टोमादेस्तत्रान्वयो निराबाधः / इत्थं च कथं चिरनष्टेन यागेन स्वगों भाव्य इति प्रतीत्यपर्यवसानेऽन्त्याऽपूर्व कृत्वेति सम्बध्यते, ततः कथमपूर्व यागेन कर्त्तव्यमित्यपूर्वभावनायामित्थंभावेन संयुज्यमानमितिकर्तव्यताजातमपूर्वप्रयुक्तमुच्यते, ततः प्रकारापेक्षायां समिधो यजतोति वाक्यस्त्विष्ट विशेषापेक्षैः साधिकारवाक्यस्यैकवाक्यतया दशपौर्णमामभावना प्रयाजादिभावनोपेताऽपूर्व साधयतीत्यवगते प्रयाजादीनां तादर्थ्यनिर्वाहाय करणोपकारकत्वं कल्प्यते / एवं मन्त्रादीनामपि प्रधानभावनया तादर्थ्येन समन्वये पश्चादुपकारत्वं कल्प्यते / तदयं भट्टमते बोधक्रमः स्वर्गकामनिष्ठा यागकरणिका भावना स्वर्गफलका प्रयाजादीतिकर्तव्यताकेत्यर्थभावनाबोधः / विधिनिष्ठा शक्ति ग्रहकरणिका स्तुत्यर्थवादोपकृता प्रवर्त्तनेति शब्दभावनाबोधः शब्दकल्पनेन लक्षणया वोपपाद्यः / ततो निरुक्तार्थभावना निरुक्तप्रवर्तनाविषय इत्येकवाक्यतया महावाक्याथबोधः अर्थभावनाविशेषणत्वेनैव शाब्दभावनान्वयश्च राजादिवाक्ये आज्ञादेस्तथैवान्वयदर्शनाद् द्रष्टव्यः / तेन विशेष्यत्वेन तदन्वयो नृसिंहोक्त उपेक्षणीयः तदुपाये च योग्यतात्वेन प्रवर्त्तनायामपि बलवदनिष्टाननुबन्धित्वमन्वेतीति 'न सुरां xभत्र पाठः संदिग्ध