________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका ज्ञानं हेतुः, प्रवर्तना च प्रवर्तयितुः प्रवृत्त्यनुकूलव्यापारविशेषः, स च चेतनस्य राजादेराज्ञादिः अचेतनस्य तु वेदस्याभिधानामकः कश्चिदसमवेतः शब्दस्य तन्मते द्रव्यत्वात् तथा च राजाऽऽज्ञादिज्ञानात् यथा प्रवृत्तिस्तथा विधेरभिधाज्ञानादपीति / सैव लिङर्थः सा च शब्दाश्रितत्वाच्छब्दशक्तिः प्रवृत्त्यै शब्दव्यापारत्वाच्छब्दभावनेत्युच्यते, भावनापदस्य तन्मते व्यापारवाचकत्वात् / .. अथाभिधापदादभिधात्वेन ज्ञानादप्रवृत्तेः प्रवर्तनात्वेन तज्ज्ञानं प्रवृत्तिकारणं वाच्यं, तत् कुत इति चेत् , प्रवर्तनात्वविशिष्टे लिङ्त्वावच्छिन्नशक्तिस्वोकारात् , तत एव तज्ज्ञानात् , तथैव व्युत्पत्तेः तथाहि-स्तनपानार्थ रुदन्तं स्वं पश्यन्त्या मातुः स्तन्यदानार्थं प्रवृत्ति प्रेक्षमाणो बाल: प्रवृत्तिजनकं ज्ञान जिज्ञासुः स्वरोदने स्वाभिप्रायरूपप्रवर्तनानुमानमेव मातुस्तथेनि प्रतिसन्धत्ते ततश्च प्रयोजकवृद्धवचन श्रोतुः प्रयोज्यवृद्धस्य प्रवृत्तिं दृष्ट्वा तस्य तद्वाक्यजनितप्रवर्त्तनाज्ञानमनुमिनोति, ततस्तस्य किं हेतुरिति जिज्ञासुरुपस्थितत्वाद्वाक्यमेव तथावधारयति, तत आवापोद्वापाभ्यां लिङस्तत्र शक्तिं गृहातीति / तदुक्तम् "अभिधाभावनामाहु-रन्यामेव लिङादयः / अर्थात्मभावनात्वन्यासर्वाख्यातस्य गोचरः" // इति अर्थात्मत्वम्-अर्थविषयत्वम् अर्थाश्रितत्वं वा, तथा चार्थनिष्ठत्वादर्थभावना फलोस्पत्यनुकूलकृतिनोदनादिव्यापाररूपाऽऽख्यातत्वावच्छिन्नशक्त्या चेतनाचेतनकर्तसाधारणी कर्तशक्तिः / द्विविधाऽपि भावना नियमतः कर्मकरणेतिकर्तव्यतारूपांशत्रयमाकाङ्क्षा, तस्त्रितयविषयकशाब्दबोधविषयत्वनियमात् / तत्रितयसाकाङ्क्षात्वमेवोभयानुगतं भावनापदप्रवृत्तिनिमित्तम्, तत्र शब्दभावनाया अंशत्रयमुच्यते “लिङोऽभिधा सैव च शब्दभावना, भाव्या च तस्याः पुरुषप्रवृत्तिः / सम्बन्धबोधः करणं ' तदीयं, प्ररोचना चागतयोपयुज्यते” अस्यार्थः लिङोऽभिधानामकः स्ववृत्तिः शक्योऽवश्यं वाच्यः / न च तत्र मानाभावः व्यापारभिन्नस्य परनिष्ठव्यापारजनकत्वे स्वनिष्ठव्यापारद्वारेऽतिव्याप्तः चक्रभ्रमिजनकदण्डादौ स्वनिष्ठस्पन्दादिद्वारके दृष्टत्वात् / तथा च लिङ्पदेनापि स्वनिष्ठव्यापारोऽवश्यमर्जनोयः इति व्यापारस्य व्यापारान्तरापेक्षायामनवस्था स्यादिति व्यापारभिन्नस्येति / व्यापारिणः स्वनिष्ठ व्यापारार्जनेऽपि व्यापारापेक्षायामनवस्थापत्तः परनिष्ठेति शब्दस्य ज्ञानद्वारा प्रवृत्तिहेतुत्वात् सिद्धसाधनं स्यादिति शब्दनिष्ठाभिधासिद्धयर्थ स्वनिष्ठेति-किमित्याकाङ्क्षायां भाव्यमाह-भाव्याचेति-अर्थभावनैव शब्दभावनाभाव्येत्यर्थः / केनेत्याकाङ्क्षायां करणमाह-सम्बन्धबोध इति-अगृहीतशक्तिकाल्लिडोऽप्रवृत्या सङ्केत ग्रहे तत्सहकारित्वमित्याशयः / संकेतश्च-शक्यघटकपदानां तत्तदर्थे, लिङश्च प्रवर्तनात्वादिविशिष्टे बोध्यः। न्या. सि. 2