________________ न्यायसिद्धान्तमम्जरीशब्दखण्डटीका कत्वं वेदे तु वक्तुरभावात् स्वातन्त्र्येण प्रामाण्यमिति वदन्ति तन, वेदे [ एव ] क्लुप्तसामग्रोतो लोकेऽपि संसर्गप्रत्ययात्, अन्यथाऽनुवादकताऽपि न स्यात् / लिङ्गस्य पूर्णत्वेऽपि व्याप्तिस्मृत्यादि. विलम्बात् शब्दापेक्षयाऽनुमानस्य विलम्बतत्वानुवादकत्वम् / अथ लोके आप्तोक्तत्वनिश्चियस्तन्त्र तथा चावश्यकतदनुमानतस्तदुपजीविसंसर्गानुमितेवा वाक्यार्थसिद्धेला किकस्यानुवादकतेति चेत् , कुतः सतन्त्रं, नहि तन्निश्चयः शाब्दधीसामान्यहेतुः ! तव मते वेदजन्यशाब्दबोधे व्यभिचारात् , नापि लौकिकवाक्यजन्ये स हेतुः वेदानुकारेण पत्र्य. मानमन्वादिवाक्ये वेदत्वभ्रमाद्वेदानभिज्ञगौडमीमांसकस्य तद्वाक्यजशाब्दबोधे व्यभिचारात् / न चयं बोधो भ्रमे[-मा ?] विषयाबाधात् / न च लौकिकत्वे न ज्ञानजन्ये तथा तत्कालीन-तत्पुरुषीयलौकिकत्वज्ञानस्यैव हेतुत्वेन वक्तव्यतयाऽनन्तकार्यकारणभावापत्तेः / वेदे क्लृप्तसामग्र्यैव कार्योत्प-- त्याऽऽमोक्तत्वज्ञानस्यान्यथासिद्वत्वाच्च / अथानाप्तोक्तत्वसन्देहे शाब्दधीर्नेति तद्वयुदासोऽहं, स च वेदेऽपौरुषेयत्वनिश्चयाल्लोके आप्तोक्तत्वावधारणादिति चेन्न, प्रकृतवाक्यार्थयथार्थज्ञानवद्वक्तृकत्वरूपस्य तस्य दुरवधारणत्वात् , वाक्याथेस्यापूर्वेत्वात् / ___ यदि चापौरुषेयत्वनिश्चये सत्येव वेदार्थनिश्चयस्तदा दोषवत्पुरुषाप्रणीताकाङ्क्षादिमत्पदस्मारितत्वेन वेदवाक्यार्थस्याप्यनुमितेर्वेदोऽप्यनुवादकः स्यात् तदुक्तमुदयनाचार्यैः कुसुमाञ्जलौ व्यस्तपुंदूषणाशङ्कः, स्मारितत्वात्पदैरमी / अन्विता इति निर्णीते, वेदस्यापि न तत्कुतः // इति अमी अर्थाः / तत्-अनुवादकत्वम् / मूलम्-ननु यदि स्वातन्त्र्येणैव शब्दो मानं तदा घटमानयेत्यतः शब्दात्पामराणामप्यथेप्रत्ययः स्यादिति चेत् , नः शक्तिग्रहस्यापि सहकारित्वात्, पामराणाञ्च घटादिशब्दे शक्तरग्रहात् / अथ केयं शक्तिः / अभिधा नाम पदार्थान्तरं सङ्केतग्राह्यमिति मीमांसकाः / टीका-किंचैवं शब्दस्य प्रमाणत्वमेव कुतोऽनुमानादेव वाक्यार्थप्रतीतेरिति कृतं पल्लवितेन / स्वातन्त्र्येणेति-शब्दत्वेनैवेत्यर्थः / पदार्थान्तरं (च) तत्तत्क्लप्तपदार्थतावच्छेदकाभाववत् / संकेतग्राह्य अनादिसंकेतज्ञानगम्यम् / मोमांसका=भट्टाः, तेषामयमाशयः-अर्थवादवाक्यं लौकिक वैदिकं चाप्रमाणभूतमेव, प्रमाणं च विधिवाक्यम् तत्राभिधा नाम पदार्थान्तरं प्रवर्तनारूपा शब्दनिष्ठा विध्यर्थः / तथाहि-तन्मते प्रवृत्तिर्द्विधा - स्वेच्छाधीना, परेच्छाधीना च तत्राद्यायामिष्टसाधनत्वादिधीः कारणम् , अन्त्यायां राजगुर्वादेराज्ञा प्रेरणादिधीः अनिच्छन्तमपि राजा प्रवर्तयतीत्यनुभवात् तेषां च प्रत्येकरूपेण ज्ञानस्य प्रवृत्ती हेतुत्वे व्यभिचारागौरवाच्च प्रवर्तनात्वेनैव