________________ __ न्यायसिद्धान्तमम्जरीशब्दखण्डटीका मत्यत्पदकं तद्वाक्यं तत्तत्पदार्थवत्तत्तत्पदार्थज्ञानपूर्वकमिति सामान्यव्याप्त्या ज्ञानावच्छेदकतया 'खले कपोत' न्यायेन महावाक्यार्थसिद्धिः / ___ यद्वा पदश्रवणोत्तरं पदार्थस्मरणे एतद्वाक्यघटकपदस्मारिताः पदार्थाः एतद्वाक्यतात्पर्यविषयमिथःसंसर्गवन्तः, आकाङ्गादिमदेतद्वाक्यघटकपदस्मारितत्वात् घटेन जलमाहरेति वाक्यघटकपदस्मारितार्थवदित्यतः सामान्यमुखव्याप्त्या विशेषसिद्धिः / वस्तुतः कर्मत्वादिकं घटादिमत् घटादिपदाकालादिमत्पदस्मारितत्वादित्यायनुमानं बोध्यम् / / ___ न च शाब्दबोधो व्युत्पत्तिबलात्कर्मत्वादिविशेष्यक एव, अनुमितिस्तु कर्मत्वादिविशेषणिकाऽपि स्यादिति नियमभङ्गः, शाब्दिकानुमितौ व्युत्पत्तेरपि तन्त्रत्वात् , इत्थं हि घटः कर्मत्वमित्यादेरप्यननुमितिः संगच्छते जनितान्वयबोधेऽपि न तथाऽन्वयोऽनुभवाभावस्यापि स्वरूपसमतस्तत्र हेतुत्वसंभवात् / एतेन घटो नेत्यादावभावो विशेष्य एवान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वमेव संसर्ग इत्यादिकमुपपादितप्रायमिति तदसत्, पदश्राविणां जायमानप्रतीतौ नानुमिनोमीत्यस्य विधेयत्वाभावविषयत्वेन साक्षात्करोमीत्यस्यापि लौकिकविषयत्वाभावस्यैव विषयत्वात् तत्रानुमितित्वस्येव प्रत्यक्षत्वस्यापि दत्तपदत्वाद्विनिगमकाभावात् / शाब्दत्वं मानसत्वव्याप्यमिति मते त्वनुमितित्वमपि तथा स्यादिति चार्वाकमतप्रवेशः / ... अपि च शब्दस्यानुमितित्वे वह्निव्याप्याभाववान् पर्वतो वहिमान् इति शाब्दस्यानुपपत्तिः वहन्यनुमितौ वह्निव्याप्यवत्ताधियो हेतुत्वात् , तस्याश्च वहिव्याप्याभाववत्ताधीविरोधित्वात् / अपि च घटात्पृथगित्यादावेकदेशान्वयशालिशाब्दसमानाकारानुमितिदुर्घटा, पृथक्त्वं पक्षी- . * कृत्यानुमितौ तद्वतोऽभानापत्तेः / तद्वतः पक्षत्वे तत्रैव पञ्चम्यर्थभानापत्तेः / पटो घटावधिकपृथक्त्ववान् इत्यनुमितिः संभवतीति चेत् , संभवतु तथापि घटात्पृथगित्येतावन्मात्रजशाब्दसमानाकारानुमित्यनुपपत्ते१रित्वात् / न च शाब्दानुमितिसामग्रीसमाहारे युगपदुभयोत्पत्तिवारणायैकसामग्र्या अपरत्र प्रतिबन्धकत्वकल्पने भवतां गौरवमिति वाच्यं, वन्यादेरशाब्दानुमितेरपरस्य शाब्दानुमितेश्चैकदोत्पत्तिवारणाय शाब्दानुमितिसामग्रीत्वादिना शाब्देतरानुमितित्वाधवच्छिन्ने विरोधित्वकल्पने तवैव गौरवात्, यत्तु शाब्दानुमित्यो लक्षण्ये शाब्दानुमित्यन्यत्वकल्पने गौरवमिति तन्मन्दम् ऐकजात्ये शाब्दशाब्देतरानुमित्यन्यतरत्वस्य कल्पनावश्यकत्वादिति दिग् / जरन्मीमांसकास्तु लोके “अयं वक्ता स्वप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यार्थज्ञानजन्यवाक्यप्रयोक्तृत्वात्" इति सामान्यमुखव्याप्त्याऽनुमानाद्वक्तृज्ञानोपसर्जनतयोत्तरकालं वा "एते पदार्था मिथःसंसृष्टा वक्तृयथार्थज्ञानविषयत्वाद्" इत्यनुमानाद्वाक्यार्थसिद्धौ शब्दस्यानुवाद