________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका नैयायिकेभ्य इति-तथा च नैयायिकेन शाब्देच्छयैवोच्चरितमिति तदीयतात्पर्यज्ञानानुरोधात् शब्दात् शाब्द एव श्रोतुर्भविष्यति / वैशेषिकस्य शाब्दे वारयितव्ये तु लिङगतया ज्ञापकत्व एव तत्तात्पर्यात् श्रोतुर्न शब्दसंभव इति ध्वनितम् / अत्र केचित् अनुमितित्वव्याप्यमेव शाब्दत्वं न तु तद्विरुद्धं लाघवात् / न चैवं घटमानयेत्यादिवाक्यश्राविणां जातबोधे घटं शाब्दयामि नानुमिनोमीत्यनुभवदर्शनात् कथमनुमितित्वव्याप्यं शब्दत्वमिति वाच्यम् ? तन्मते पक्षताया लिङ्गादिभेदेन विशिष्यैव हेतुत्वादत्र सियभावरूपपक्षताकार्यतावच्छदेकत्वेनाङ्गीकृतविलक्षणविधेयताऽभाव एव "नानुमिनोमीति" धिया विषयीक्रियते नत्वनुमितित्वाभाव इत्याशयात् / तथा च प्रयोगे शब्दोऽनुमितित्वव्याप्यस्वकरणकप्रमितित्वकः अनुमित्यन्यं (न्य )प्रमित्यनुपधायको वाऽनुमितिसामग्यूव्यभिचारिफलकत्वादुभयवादिसिद्धानुभववदित्यनेन शाब्देऽनुमितित्वसिद्धिः / न वाऽसिद्धिः 'दण्डेन गामभ्याजेति' पदानि वैदिकपदानि वा तात्पर्यविषयस्मारितपदार्थप्रमापूर्वकाणि आकाङ्क्षादिमत्पदकदम्बकत्वात् घटेन जलमाहरेति पदकदम्बकवदित्याद्यनुमानसंभवात् / मनुष्यो विद्यावान् ब्राह्मणो विद्यावान्, द्रव्यं रूपवद्, घटो रूपवान् इत्यादी संभवनियमसंसर्गपरे नियमसंसर्गसिद्धिवारणाय तात्पर्यविषयेति संसर्गविशेषणम्, नीलो घटो द्रव्यं पट इत्यादौ नीलघटाभेदसंसर्गपरे नीलघटाभेदसंसर्गसिद्धिवारणाय स्मारितेति-अव्यवधानेन स्मारितेत्यर्थकम् / सदर्थपदं पदतात्पर्यविषयपरं, नातोऽश्वपरात्सैन्धवपदालवणसंसर्गसिद्धिः / यद्वा 'घटोऽस्तीत्यादित आश्रयत्वसम्बन्धेन घटपदस्मारिताकाशानुयोगिकसंसर्गसिद्धेः पदार्थत्वेन पदार्थस्य संसर्गसिद्धेश्च वारणाय स्मारितेति-वृत्त्या स्मारितेत्यर्थकं; येन रूपेण वृत्त्या स्मारितः पदार्थस्तद्रूपावच्छिन्नस्य सामान्यपुरस्सरव्याप्त्यादन्य संसर्गसिद्धिः / ईदृशपदार्थविशेषितसंसर्गे तात्पर्यविषयत्व विशेषणान्न प्रागुक्तनीलघटाभेदसंसर्गसिद्धिः / संसर्गपदमाकाङ्क्षा निरूपकसंसर्गपरं, तेन घटमित्यादौ न घटकर्मत्वादेः कालिकसंसर्गसिद्धिः / इत्थं च हेतावप्याकाङ्क्षापदसार्थक्यम् / प्रमात्वं चैकपदार्थवदपरपदार्थविशेष्यकत्वं तेनाभिमतसंसर्गसिद्धिः / हेतौ चाकाङ्क्षापदार्थविशिष्टसंसर्गतात्पर्यरूपानुभवकत्वांशस्य गौरवेणाज्ञातस्यैवोपयोगित्वेनाप्रवेशात् / आदिनाऽऽत्मत्वादि [ ? ] लाभः / तथा च तात्पर्यविषयाव्यवहितवृत्तिस्मारितार्थसंसर्गेण योग्यतावत्त्वं हेतुः घटः कर्मत्वमित्यादावपि तात्पर्यसत्त्वे साध्या(ध्य)सत्त्वान्न व्यभिचारः / न च योग्यतासंशयादपि. शाब्दबोधात्तत्काले योग्यतागर्भहेत्वनिश्चयः योग्यतांशे संशयेतरसंशयान्यत्वस्यैव निश्चयत्वस्य प्रकृते निवेशात् / अत्र यद्वाक्यं स्वघटकयत्यत्पदाकाहादि