________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका व्यापारकत्वमपि शब्दे संभवति व्यापारीभूतपरामर्शोपधायकत्वस्यापि व्याप्तिज्ञानादावेव संभवादिति . चेत् , भयुक्तमेतदनुभवकलहकारिणी णां] तेषां मतम् / आकाङ्क्षादिसचिवस्य सव्यापारस्य शब्दस्य प्रमोपधाननियमसत्त्वात् / अन्यथा चक्षुरादेरपि करणत्वायोगात् आलोकायसंभवहितस्य तस्य प्रमानुपधायकत्वात् / क्षगभङ्गस्य च निरासात् / न चैवं कर्नादेरपि करणत्वापत्तिरिष्टत्वादुपधेयसंकरेऽपि कर्तृत्वकरणत्वाधुपाधिभेदेन व्यवहारभेदसंभवादिति दिए / अन्यथा शब्दत्वेन विप्रतिपद्यन्त इति-शब्दोऽनुमितित्वासमानाधिकरणप्रमितिविभाजको- . पाध्यवच्छिन्नजनकताशाली नवेति विप्रतिपत्तिः, विधिकोटिनैयायिकानां, निषेधकोटिवैशेषिकस्य, विधिकोटिप्रसिद्धिः प्रत्यक्षप्रमाणे; निषेधकोटिश्च घटादावेव सुलभा / अत्र प्रमाणविभाजकोपाध्यवच्छिन्ना जनकता तत्तत्प्रमितिविभाजकोपाध्यवच्छिन्नजन्यतानिरूपिता ग्राह्या, तेन स्वप्रत्यक्ष प्रतिशब्दस्य कारणत्वेऽपि. नेष्टापत्तिः, लौकिकसाक्षात्कारत्वावच्छिन्नकार्यतानिरूपितायाः शब्दत्वावच्छिन्नाया वा शब्दकारणतायाः सत्त्वेऽपि साक्षात्कारत्वावच्छिन्नकार्यतानिरूपितायाः शब्दत्वावच्छिन्नशब्दकारणताया अभावात् मूलम् तत्रानुमानविधयेति वैशेषिकादयः। नैयायिकास्तु पृथगेव शब्दो मानं न त्वनुमानम् / शब्दस्य अर्थाव्याप्यत्वात् / न हि यत्र शब्दस्तत्र घटानयनादिरूपोऽर्थः शब्दस्याऽऽकाशवृत्तित्वात्, घटादेश्च तदवृत्तित्वात् / / टीका--अनुमानविधयाऽनुमानत्वेनैवेत्यर्थः / पृथगेव-शब्दत्वेनैव, मान-प्रमितिजनकं, न त्वनुमानम् अनुमितिकारण शब्दस्येति-अर्थाव्याप्यत्वात् - स्वजन्यप्रमितिविषयाव्याप्यत्वात् / अव्याप्यत्वं दर्शयति-नहीति / तदवृत्तित्वात्-आकाशावृत्तित्वात् / . मूलम्--दृश्यते च व्याप्तिज्ञानविधुराणामपि शब्दादन्वयानुभवः / नचायमनु मितिरूपः, तस्या व्याप्तिधीजन्यत्वात् प्रतियन्ति च लौकिकाः अननुमितमसाक्षात्कृतं श्रुतमिदं नैयायिकेभ्य इत्यलं विस्तरेण / नन्वाकाङ्क्षादिमत्पदत्वेन पदपक्षकतात्पर्यविषयसंसर्गज्ञानपूर्वकत्वेऽनुमीयमाने न व्याप्त्यभाव इत्यत आह-दृश्यते चेति-अयम् शब्दादनुभव इत्यर्थः / तस्याः शब्दाजन्यप्रतीतेः व्याप्तिधीजन्यत्वाद्वयाप्तिनिश्चय जन्यत्वात् ! लौकिका इति लोके भवा लौकिकाः / अननुमितमिति-इदमुपलक्षणं नोपमितमित्यपि द्रष्टव्यम् / एवं च शब्दजन्यज्ञानेऽनुमितित्वप्रत्यक्षत्वाद्यभावे गृहीते जायमानं ज्ञानं शब्दजन्यमनुमितित्वानाश्रयसिद्धं शाब्दत्वमनुमिति [त्व] विरुद्धमिति भावः / श्रुतमिति-शाब्दविषयीकृतमित्यर्थः / शृणोते नार्थत्वेन श्रावणत्वस्यै [स्ये] व शाब्दात्वस्यापि शक्यत्वावच्छेदकत्वात् / अत एव श्रुतौ 'श्रोतव्य' इति प्रयोगोऽप्यात्मविशेष्यक उपपद्यते / इदं रजतकर्मकानयनादि / .. a वैशेषिका / b देशिकाः।