________________ न्यायसिद्धान्तमञ्जरीशब्दलण्डटीका वस्तुतस्तत्र स्वप्रतिपाद्यत्वोपादानादेव नातिप्रसंगः, तथाहि-फलोपधायकस्य लक्ष्यत्वे स्वप्रतिपाद्यत्वं स्वोपहितप्रतिपत्तिविषयत्वं वाच्यम्, तथा च घटः कर्मत्वमित्यादेः स्वरूपायोग्यस्य निराकाङ्क्षस्य स्वोपहितप्रतिपत्त्यभावार्दवादेयः स्वरूपयोग्यस्य तु "अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामि"त्यादेः पुत्रेण जनितान्वयबाध्यत्वे राजसम्बन्धविशिष्टपुरुषस्य स्वप्रतिपाद्यत्वाभावः, तेनाजनितान्वयबोध्यत्वे तु तदर्थेऽप्रमाणत्वं, प्रमास्वरूपयोग्यस्य लक्ष्यत्वे तु स्वप्रतिपाद्यत्वं स्वस्वरूपयोग्यप्रतिपत्तिविषयत्वं वाच्यमिति स्वरूपायोग्यनिराकाङ्क्षव्युदासः, स्वरूपयोग्यस्य तु सदैवोभयत्र प्रमाणत्वमिति पक्षधरमिश्राः / अत्रेदं चिन्त्यम् तत्तद्वाक्येष्टसाधनत्वज्ञानादित एव वाक्यरचनासंभवाद्वाक्यार्थज्ञानस्य वाक्यहेतुत्वे मानाभावः / बुबोधयिषापूर्ववाक्ये फलेच्छासम्पादकतयाऽपि न तदुपयोगः रूपकादौ स्वबोधाननुरूपबुबोधयिषाया अपि दर्शनात् / स्वप्रतिपाद्यवाक्यार्थतत्त्वज्ञानोत्तरवर्तिस्वत्वं क्वचिद्वाक्यार्थ ज्ञात्वा वाक्यार्थप्रयोगासर्वत्रेश्वरीयतज्ज्ञानसत्वात्संभवतीति चेत् , तथापि मौनिश्लोकेऽव्याप्तिस्तत्त्वज्ञानपदवैयर्थ्य च भ्रमोपधायकानामपि केनचित्पतिसंहितानां प्रमोपधायकत्वसंभवात् , अतीतानागतशब्दस्य करणत्वासंभवात्तदज्ञानस्यैव फलोपधायकस्य लक्ष्यत्वात् , प्रमानुपधायकज्ञानवारणाय तदवैयर्थेऽपि स्वत्वप्रवेशादननुगमात्प्रागुक्तलक्षणस्यैव युक्तत्वादिति दिए / मूलम्-सोऽयं शब्दः सकलजनानुभवसिद्धो दुरपहवः / तज्जनकत्वमपि तथा / आगोपालानमापण्डितं चैत्रवाक्यादमुमथै प्रत्येमीति प्रतीतेः केवलमनुमानविधयाऽन्यथा वेति विप्रतिपद्यन्ते / टीका-सोऽयमिति-शब्द[शाब्द]प्रमितिकरणीभूत इत्यर्थः / दुरपह्नवः अपह्रोतुमशक्यः / तज्जनकत्वमपि-शब्दे शाब्दप्रमितिजनकत्वमपि / तथा अपह्नोतुमशक्यम् ; अपह्नवविरोधानुभवमुपदर्शयति / आगोपालाङ्गनमिति-- ___ननु कथमेतत् सौगतैरे[?]व शब्दे प्रमाकरणत्वानुपगमात् / प्रमाकरणं हि तत् यस्मिन् सति प्रमा भवत्येव / न च शब्दे सति प्रमोत्पत्तिनियमः, षष्ठ्यर्थोपस्थित्याकाङ्क्षाज्ञानादिविलम्बन तद्विलम्बात् / अतो नायं प्रमाणं प्रमाऽयोगव्यवच्छिन्नत्वाभावात्, तत्त्वं हि स्वाव्यवहितप्राक्क्षणोत्पत्तिकत्वसम्बन्धेन प्रमाविशिष्टत्वं, स्वप्रत्यक्षानुपहितशब्दस्य पक्षीकरणान्न बाधासिद्धी / अत एव स्वोत्पत्तिकालीनपरामर्शविषयशब्दस्यानुमित्युपहितत्वेऽपि न क्षतिः / तदतिरिक्तस्य पक्षत्वात् / न चैवं तेषां शब्देऽनुमानविधया प्रमाण्योपगमविरोधः, शब्दात्पदार्थमात्रोपस्थितौ मनसा परामर्शेऽनुमित्युत्पत्तेः शब्दस्यानुमितिप्रयोजकतामात्रस्य तैः स्वीकारात् / न च चक्षुरादिवत्प्रमाऽयोगव्यवच्छिन्न 1. A पण्डितं चैत्र इत्यस्य मध्ये 'च' इति पाठोऽधिकः /