________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका चैतदर्थ अनुभवत्वान्यत्वमेवनिवेश्यं, तथापि ज्ञानत्व-गुणत्वादिकमादाय तदोषतादवस्थ्यात् / ननु जन्यत्वं धीविशेषणं कुतः, कुतो वाऽनुभवत्वव्याप्यत्वं लघुभूतमपहायानुभवत्वाव्यापकत्वं जातिविशेषणमत आह-- ___ मूलम्-पदधीजन्यत्वव्यभिचारिअनुभवत्वापरजातिशून्यत्वं चानुमितावपि / अनुमितित्वस्य भगवत्पदधीजन्यत्वाव्यभिचारित्वात् , अतः समुदितमुपात्तम् / उपमितावतिव्याप्तिवारणाय शून्यान्तम् / जात्यादावतिव्याप्तिवारणाय धीपदम् / ____टोका-पदेधीजन्यत्वेति-अनुमितावपीति-तत्र तादृशानुमितित्वशून्यत्वाभावान्नातिव्याप्तिरत आह– अनुमितित्वस्येति अनुमितित्वस्यानुभवत्वापरजातेः, तथा च तादृशजातिशून्यत्वं चाऽस्तीत्यतिव्याप्तिरिति भावः / / यद्यप्येवमीश्वरीयपदधीजन्यत्वव्यभिचार्यनुभवत्वापरजातेरप्रसिद्धिः सर्वप्रमितेरेवेश्वरीयज्ञानजन्यत्वादिति कथं तच्छून्यत्वमनुमितावतिव्याप्तं तथाप्यनुमितावपीत्यादिनाऽतिव्याप्ति भिहिता किन्तु तादृशजातेरप्रसिद्धा (या) संभव एवात एवानुमितावपीत्यपिना शाब्दादिसंग्रहः / समुदितं जन्यपदधीजन्यत्वव्यभिचार्यनुभवत्वाव्यापकजातिशून्यान्तं, शून्यान्तमिति-पदविषयत्वाव्यभिचारिजातिशून्यत्वं, जात्यादावित्यादिपदात् विशेषसमवायादिपरिग्रहः।। आप्तोपदेशः शब्द इत्यस्याप्ययमेवार्थः आप्तो यथार्थः, आप्तः-प्राप्तः स्वप्रकारमन्वयितावच्छेदकावच्छेदेन तद्विशेष्यकत्वावच्छिन्नत्वेनेति व्युत्पत्तेः, इत्थं हि रङ्गरजतत्वप्रमायाः संग्रहोऽसंग्रहश्च रजतरङ्गत्वभ्रमस्य तयो रजतत्वज्ञानस्य च आप्नोति स्वप्रकारं विशेष्यतया आमोतीति व्युत्पत्त्या स्वनिरूपितविशेष्यतावद् याववृत्ति प्रकारतासामान्यक इत्यर्थस्तु वर्तमानार्थेक्ताननुशासनाद्विपरीतचतुष्कभ्रमातिव्याप्तेश्च हेयः / उपदेशः शब्दज्ञानजन्यत्वव्याप्यशब्दाविषयकवृत्तिजातिमान् बोधः, स यस्मात्तथा च तादृशबोधकरणत्वं लक्षणमित्यत्र तात्पर्यात् / “प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणमिति” मणिकृद्वाक्यस्याप्येष एवार्थः / प्रयोगः प्रकृतवाक्यं तद्धेतुभूतं ज्ञापभूतं यस्य स स्वप्रतिपाद्यवाक्यार्थस्तत्तत्त्वज्ञानजन्यः शब्दः प्रमाणशब्द इति हि तदक्षरार्थः / वह्निना सिञ्चतीत्याद्ययोग्यवाक्ये तद्वाक्येष्टसाधनतारूपयथार्थवाक्यार्थज्ञानजन्येऽतिव्याप्तेर्वारणाय स्वप्रतिपायेति / वह्निकरण[-क] त्वविशिष्टसेकज्ञानजन्ये तत्र तद्वारणाय तत्त्वज्ञानपदम् / तादृशवाक्यार्थगोचरसंस्कारवारणाय लक्षणे शब्द इति / अनुमानादेर्लक्ष्यत्वे तत्राव्याप्त्यापत्ति[-त्ते]र्लक्ष्यकोटौ शब्द इति / अत्र निराकाङ्क्षादावतिव्याप्तिवारणाय लक्षणे आकाङ्क्षादिमत्त्वं विशेषणं देयमिति यज्ञपत्युपाध्यायाः। 1 वस्तुतस्तु ईश्वरज्ञानस्य नित्य प्रत्यक्षात्मकतया प्रत्यक्षत्व जातेः पदधीजन्यत्वाभाववत्तादृशेश्वरज्ञानवृत्तिस्वेन तस्या एव प्रसिद्धत्वात् / अत एव प्रत्यक्षे निरुतजातिशून्यत्वाभावात् प्रत्यक्षं विहाय अनुमित्यादावित्यक्तमिति ध्येयम् /