________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका द्रष्टव्या / निरूपणयोः संगतिनिरूपणपौर्वापर्यनियामिकेति न निरूप्यनिष्ठसंगत्यभिधानाग्रहः पारम्पयेण तस्या निरूप्यनिष्ठत्वान्नासंगताभिधानमिति दिग् [क्]। यत्तु कैश्चिद्व्याख्यातमथशब्दस्योपमाननिरूपणजिज्ञासानिवृत्तिक्षणनिष्ठे लक्षणा, लक्षितार्थस्य निरूपणे धात्वर्थेऽन्वयः, लडथों विषयत्वं, तथा चोपमाननिरूपणजिज्ञासानिवृत्तिक्षणनिष्ठाभिन्ननिरूपणविषयः शब्द इति वाक्यार्थादवसरसंगत्याशब्दनिरूपणमिति / तदाऽऽपातरमणीयं, प्रतिबन्धकजिज्ञासापगमस्य स्वरूपसत एवोपयुक्तत्वात् / अत एव तन्मात्रस्य कथं संगतित्वमित्याशङ्कायां केवलस्य तस्य न कथंचित् प्रतिबन्धकजिज्ञासानिवृत्ताववश्यवक्तव्यत्वस्य त्ववसरसंगतित्वं युक्तिमदेवेत्यभिप्रायेणोक्तम् / यथा चावसरस्य संगतित्वं तथोक्तमाकर इति बाधितीवेवानव चाग्रहे शब्दपदस्यावश्यवक्तव्यशब्देऽर्थान्तरसङ्क्रमितवाध्यता युक्तेति दिग् / . निरूप्यत इत्यत्र निरूपणं लक्षणस्वरूपप्रामाण्यप्रतीत्यनुकूलो व्यापारः, स च शब्दः, तद्विषयता च व्यापारानुबन्धिनोति ध्येयम् / तत्र-लक्षणादिभिर्निरूपणीये, शब्द:-प्रमाणशब्दः / ननु शाब्दत्वं प्रत्यक्षाद्यन्यत्वगर्भमननुगतं तथा च लक्षणाननुगमोऽत आह-शाब्दत्वं चेति-ननु शब्दात्प्रत्येमीति प्रतीत्या न जातिर्विषयीक्रियते किन्तु शब्दप्रयुक्तज्ञानत्वमुपाधिरेवानुमितिः / परशब्दस्थलेऽपि तथाऽनुभवादत आह मूलम् -जन्यपदधीजन्यत्वव्यभिचारि अनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाऽव्यभिचारिजातिशून्यधीत्वं वा सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय, तर तादृशीनां प्रत्यक्षत्वादिजातीनां सत्त्वात् / / टीका--जन्येति-जन्यपदघीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च (या) जातिः प्रत्यक्षत्वानुमितित्वादिका तच्छून्यत्वे सति पदविषयत्वाव्यभिचारिणी (या) जातिरुपमितित्वं तत् शून्यत्वं शाब्देऽस्तीत्येवं योजना कार्या / अत्र स्मृतित्वमिति अनुभवसामग्रीप्रतिबध्यतावच्छेदिका जातिरित्यर्थः / तादृशीनां-जन्यपदधीजन्यत्वव्यभिचारिणीनां ( अनुभत्वाव्यापकिनाम् ) जातिशून्यत्वं जातिशून्यत्वमात्रम्, अनुभवत्वाव्यापकजातिशून्यत्वं च तावन्मानं चेत्यर्थः / मूलम् --जातीनां सत्त्वात् / जातिशून्यत्वम् अनुभवत्वाव्यापकजातिशून्यत्वं चाऽसम्भपि / अनुभवत्वादोनां तदव्यापकशाब्द(त्व) स्य च सत्त्वात् / जन्यपदधीजन्यत्वव्यभिचारि जातिशून्यत्वमपि तथा। ताहगनुभवत्वादीनां सत्त्वात् / . टीका--असंभवं विवृणोति-अनुभवत्वेति-जातिशून्यत्वमपीति जातिशून्यत्वमात्रमपीत्यर्थः तथा असंभवि तादृगिति, तथा चासंभववारणार्थम् अनुभवत्वाव्यापकत्वं जातिविशेषणम् / न १माकरशब्देनात्र स्याद्वादरत्नाकर ग्रन्थो बोध्यः / 2 भत्र पाठः त्रुटितः प्रतिभाति / 3 प्रत्यन्तरे प्रत्यक्षस्व इति पाठः /