________________ जानकीनाथशमकृत्न्यायसिद्धान्तमञ्जरी-शब्दखण्ड-टीका / टीकाकार:-महोपाध्यायश्रीमद्यशोविजयजी गणी। मूलम्-अथशब्दो निरूप्यते, तत्र शाब्दं प्रमितिकरणं शब्दः / शाब्दत्वञ्च शेब्दात्प्रत्येमीत्यनुभवसिदो जातिविशेषः॥ टीका-ऐं नमः / तात्पर्यव्यपदेशपेशलनयस्याद्वादमीमांसया, विक्षेपण्यभिधानविश्रुतकथाप्रामाण्यमुद्राङ्कितः। सन्देहव्यपनोदनाय सुधियामेकादशानामपि, श्रीवीरेण पटुस्वरं प्रकटितो वेदध्वनिः पातु वः // 1 // उपमाननिरूपणानन्तरं शिष्यावधानाय शब्दनिरूपणं प्रतिजानीते;- अथेत्यादिना-अथ शब्दो मङ्गलार्थोऽनन्तराभिधाने तूद्देशक्रम एव नियामकोऽन्यथा निरूपणस्य सम्प्रदायविरुद्धसाधनत्वज्ञानादेवाऽसम्भवादिति बोध्यम् / / यद्वोपमानं निरूपितमथ शब्दो निरूप्यते इति योजनयाऽऽनन्तर्यवाचिनाऽथशब्देन निरूपितोपमानानन्तर्यस्यार्थादुपमाननिरूपणानन्तरक्षणवृत्तित्वपर्यवसितस्य शब्दनिरूपणे लाभाद्भूतवर्तमानार्थकप्रत्ययान्तपदाभ्यामुपमानशब्दनिरूपणयोः, सिद्धसाध्यतयोपस्थितयोः सिद्धसाध्यसमभिव्याहारहेतुकानुमानलभ्यहेतुहेतुमद्भावस्य सङगतित्वमत्र बोध्यम् / अत्रानुमाने व्याप्तिश्च साध्यत्वरूपेण यद् यन्निष्ठसाध्यस्याधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वरूपसिद्धताबोधकवाक्यं प्रतिपादितं भवति बाधकं विना तत्तस्य जन्यं भवतीति सामान्यमुखी 1. B 'शान्दयामीत्यं' इति पाठः / न्या. सि. 1