________________ - 142 ] वायूष्मादेः प्रत्यक्षाप्रत्यक्षत्वविवादरहस्यम् स्पार्शनवारणाय द्रव्यस्पार्शनं प्रति उद्भूतस्पर्शजनकतायां जलस्पर्शनिष्ठशीतत्वव्याप्यानुद्भूतत्वाभावस्याप्यवच्छेदककोटौ प्रवेशावश्यकत्वे गौरवापत्तेः, प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे स्पार्शनप्रत्यक्ष ति उद्भूतरूपस्य जनकतया तदभावादेव रसनस्पार्शनासम्भवान्न तत्प्रवेशः, उद्भूतरूपानद्भूतस्पर्शवतो जलस्याभावादिति वाच्यम्, प्रत्यक्षस्य कार्यतावच्छेदकत्वे त्वाचीयलौकिकविषयत्वानामपि कार्यतावच्छेदकसम्बन्धकोटौ प्रवेशेन महद्गौरवात् / ननु तथापि प्रत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वे स्पर्शनिष्ठानुद्भूतत्वावच्छिन्नप्रतियोमिताकानदभतकाभावकटत्वेन द्रव्यस्पार्शनं प्रति हेतुत्वं, गगनादावपि ताशाभावकट सत्त्वेऽप्युदभतरूपा. त्मककारणान्तरविरहादेवास्पार्शनत्वोपपत्तेः / चाक्ष षत्वस्य कार्यतावच्छेदकत्वे तु स्पर्शनिष्ठानुद्भूतत्वाभावकूटवत्स्पर्शत्वेनैव द्रव्यस्पार्शनं प्रति हेतुत्वमुपेयमन्यथा गगनादेरपि स्पार्शनापत्तेः, उद्भूतरूपस्य स्पार्शनाऽहेतुत्वात् / तथा च स्पशत्वस्य प्रवेशात्स्पर्शत्वानुभूतत्वाभावकूटयोविशेषणविशेष्यभावे विनिगमकाभावेन कार्यकारणभावद्वयप्रसङ्गाच्च महगौरवम्, अतः सन्दिग्धव्यभिचारकत्वादिदमपि .. प्रत्यक्षत्वमुद्भूतरूपकार्यतावच्छेदक लाघवादिति चेत् ? न, अपेक्षाबुद्धिभेदेन कूटत्वस्य नानाविधतया तादृशानुभूतत्वाभावकूटत्वेन हेतुत्वेऽनन्तकार्यकारणभावापत्तेः / अनुभूतत्वाभावकूटवत्स्पर्शत्वेन हेतुत्वे तु स्वरूपतोऽनुद्भूतत्वाभावकूटानां स्पर्शत्वस्य चैकत्र द्वयमिति न्यायेन व्यासज्यवृत्त्यवच्छेदकतया कूटत्वस्य कारणतावच्छेदककोटौ प्रवेशात् / वस्तुतस्तु अनुभूतस्पश मानाभावात्, सामान्यत: स्पर्शत्वेनैव द्रव्यस्पार्शनं प्रति हेतृत्वम् / न त्वनुद्भूतत्वाभावप्रवेशोऽपीति क्व गौरवसम्भावना ? न च तथापि मूर्तलौकिकप्रत्यक्षत्वस्य वा उद्भूतरूपकार्यतावच्छेदकत्वे द्रव्यस्पार्शनं प्रति स्पर्शस्य न हेतुत्वमुद्भूतरूपाभावादेवाऽस्पार्शनत्वोपपत्तेः, चाक्षुषत्वस्य कार्यतावच्छेदकत्वे तु गगनादेस्त्वाचवारणाय द्रव्यत्वाचं प्रति स्पर्शस्यापि पृथगहेतुत्वमावश्यकमतो गौरवमिति वाच्यम्, मूर्तलौकिकप्रत्यक्षत्वस्याप्रत्यक्षत्वस्य वा कार्यतावच्छेदकत्वेऽपि प्रभाया वायोश्च स्पार्शनवारणाय द्रव्यत्वाचं प्रति स्पर्शस्य पृथग्हेतुताया आवश्यकत्वात् / - स्वतन्त्रास्तु चक्षुरयोग्यद्रव्यस्यापि वायूष्मादे: स्पार्शनत्वे स्पार्शनजनकतावच्छेदकैकत्वनिष्ठजातिमादाय चाक्षु (ष) जनकतावच्छेदकैकत्वनिष्ठवैजात्याऽनभ्युपगमे द्रव्यस्पार्शनं प्रति स्पर्शविजातीयमहत्त्वयोः कारणत्वकल्पनाप्रसङ्गात्, चाक्ष षजनकतावच्छेदकैकत्वनिष्ठजात्यनभ्युपगमे द्रव्यचाक्षुष प्रति महत्त्वसामान्यरूपयोः कारणत्वकल्पनाप्रसङ्गात्, इति चाक्षुषजनकतावच्छेदकैकत्वनिष्ठवैजात्यस्य व्याप्यत्वमेव स्पार्शनजनकतावच्छेदकैकत्वनिष्ठवैजात्यमतः कुतो वाय्वादे: स्पार्शनम् / अथ साङ्कर्यभिया वाय्वादेर्न स्पार्शनम्, त्रसरेण्वादेर्वा न चाक्षुषमित्यत्र विनिगमकाभावः / त्रसरेण्वादिरूपादेरेव चाक्ष षं न त्रसरेण्वादेरिति तत्रापि सुवचत्वात् / न च त्रसरेणुः रूपवान् त्रसरेणुश्चलतीत्यादिप्रत्यक्षानन्तरं त्रसरेणं पश्यामीत्यबाधितानुव्यवसायबलात त्रसरेण्वाश्चाक्ष षमावश्यकमिति वाच्यम तदा शीतो वायर्वाती'ति प्रत्यक्षानन्तरं 'वाय स्पृशामी'त्यबाधितानुव्यवसायबलात् द्वयो रपि स्पार्शनत्वस्यावश्यकत्वात् / 'त्रसरेणु' पश्यामो'त्यनु... व्यवसायस्य वा बाधितत्वं निश्चितं, 'वायं स्पृशामी'त्यस्य वा बाधितत्वं सन्दिग्धमित्यस्य (श)पथमा.