________________ वायूष्मादेः प्रत्यक्षाप्रत्यक्षत्वविवादरहस्यम् [ 141 न वै मूर्तलोकिकप्रत्यक्षं लौकिकविषयतासम्बन्धेन मूर्त्तत्ववत्त्वम् / मूर्तलौकिकप्रत्यक्षे मूर्त्तत्वजातेरपि भाननियमात् / तच्च न नित्यसाधारणं, भगवत्साक्षात्कारे लौकिकविषयताविरहात्, मूर्तनिष्ठाया लौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वाभ्युपगमाच्च न समूहालम्बनप्रत्यक्षमादाय मूतवत्तिगुणादौ व्यभिचार इति (चन) वाच्यम्, भगवत्साक्षात्कारसाधारणसाक्षात्कारत्वावच्छिन्नविषयतातिरिक्तलौकिकविषयतायां मानाभावात् / त्वाचीयलौकिकविषयित्वमर्तत्वयोः प्रवेशेन शरीरगौरवत्वेन च द्रव्यलौकिकचाक्षुषत्वमपि लौकिकविषयतासम्बन्धेन द्रव्यत्वव(त्त्वा)च्चाक्षुषत्वं, द्रव्यलौकिकचाक्षुषे द्रव्यत्वभानानियमात् / द्रव्यनिष्ठलौकिकविषयतायां मानाभावात् / त्वाचीयलौकिकविषयित्वः कार्यतावच्छेदकप्रत्यासत्तिस्तेन समूहालम्बनचाक्ष षमादाय गुणादौ न व्यभिचारः। तथा च चाक्षुषत्वप्रवेशात् मूर्तत्ववच्चाक्षुषत्वमादाय विनिगमकाभावेन चाक्षुषत्वद्रव्यत्वादिमत्त्वयोविशेषणविशेष्यभावेन च कार्यकारणभावचतुष्टयप्रसङ्गाच्च इदमेव गुविति वाच्यम् ? चाक्षुषत्वमात्रस्य कारितावच्छेदकत्वात् / तद्रव्यनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वावश्यकत्वादेव व्यभिचारविरहात् / प्रत्यक्षत्वस्य नित्यसाधारणतया तन्मात्रस्य कार्यतावच्छेदकत्वासम्भवात् / किञ्च वायूष्मादेः प्रत्यक्षत्वसन्देहेन मूर्तलौकिकप्रत्यक्षत्वस्य प्रत्यक्षत्वस्य वा सन्दिग्धव्यभिचारकत्वात् चाक्षुषत्वव्यापकत्वाच्च न तयोः कार्यतावच्छेदकत्वसम्भवः / सम्भवति निश्चिताऽव्यभिचारके रूपे ईक्ष्यमाणव्यभिचाररूपेण कारणत्ववत्कार्यत्वस्यापि विना लाघवमकल्पनात् / सम्भवति क्लुप्ताऽगुरुविशेषधर्मेऽवच्छेदके व्यापकरूपेण कारणत्ववत् कार्यस्यापि विना लाघवमकल्पनाच्च / व्याप्तिग्रहोपाये तदुपादानमेव शङ्काप्रतिबन्धकमिति व्याख्यानानन्तरमनुगताऽगुरुविशेषानुपस्थितावेव सामान्यधर्मावच्छेदेन कार्यकारणभावग्रह इति भट्टाचार्येरभिहितत्वात् / न च कारणताग्रहमात्रपरं कार्यकारणभावग्रह इत्यभिधानादविशेषणोभयपरत्वात्, धूमत्वावच्छेदेन च कार्यताग्रहस्यैव तत्र प्रकृतत्वेन कारणताग्रहमात्रपरत्वस्यायुक्तत्वाच्च / न च प्रत्यक्षस्य नित्यसाधारणत्वेन व्यापकधर्मत्वे सन्दिग्धव्यभिचारकत्वेऽपि तदेवोद्भूतरूपस्य कार्यतावच्छेदकम्, मूर्तत्वविशिष्टे लौकिकविषयता च कार्यतादिशि प्रत्यासत्तिाघवात्, चाक्षषत्वस्य कार्यतावच्छेदकत्वे द्रव्यत्वविशिष्टलौकिकविषयत्वं कार्यतादिशि प्रत्यासत्तिमूर्त्तत्वविशिष्टलौकिकविषयत्वं वेत्यत्र विनिगमकाभावेन कार्यकारणभावद्वयापत्तेः, प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे आत्मप्रत्यक्षे व्यभिचारापत्त्या द्रव्यत्वविशिष्टलौकिकविषयत्वस्य कार्य दिशि सम्बन्धत्वाऽसद्भावादिति वाच्यम्, मूर्तत्वविशिष्टलौकिकविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नस्य कार्यत्वेऽपि द्रव्यत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं मूर्त्तत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं च प्रत्येकमादाय विनिगमनाविरहेण कार्यकारणभावत्रयापत्तेर्दुरित्वात् / वस्तुगत्या द्रव्यनिष्ठस्य लौकिकविषयत्वस्य कार्यतावच्छेदकसम्बन्धत्वेन द्रव्यत्वविशिष्टस्य सम्बन्धाऽघटकतया विनिगमनाविरहाच्च / द्रव्यनिष्ठचाक्षुषविषयत्वमूर्तनिष्ठचाक्षुषविषयत्वयोर्भेदाभावात् / न च चाक्ष षत्वस्य कायतावच्छेदकत्वे स्पार्शनप्रत्यक्ष प्रति उद्भूतरूपस्याऽजनकतया रसनस्य