________________ 14.] वायूष्मादेः प्रत्याक्षप्रत्यक्षत्वविवादरहस्यम् मूर्तलौकिकप्रत्यक्षत्वस्य कार्यतावच्छेदकत्वेऽपि द्रव्यलौकिकचाक्षुषत्वं कार्यतावच्छेदकमावश्यकम्, अन्यथा आत्मन्युद्भूतरूपाभावान्मूर्तप्रत्यक्षोत्पत्त्यसम्भवेऽपि चक्षुःसंयोगलक्षणसन्निकर्षसत्त्वेन द्रव्य किकचाक्षुषोत्पत्तिप्रसङ्गस्य दुरित्वात्, तथा चेदमेव विनिगमकमिति वाच्यम्, मूर्तलौकिकप्रत्यक्षत्वमात्रस्य कार्यतावच्छेदकत्वेऽपि मूर्तलौकिकप्रत्यक्षातिरिक्तस्य द्रव्यलौकिकचाक्षुषस्यालीकतया सामान्यसामग्रोविरहादेवाऽऽत्मनि द्रव्यलौकिकचाक्षुषोत्पत्तेर्वारणसम्भवात् / न च द्रव्यान्य द्रव्यसमवेतस्पार्शनं प्रति त्वक्संयुक्तत्वाचवत्समवायत्वेन सन्निकर्षस्य करणता, न तु त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवायत्वेन, महत्त्वोद्भूतस्पर्शयोः उभयोः प्रवेशे गौरवात् / त्वाचवत्त्वं चोपलक्षणं न च विशेषणं, तेन सर्वत्र पूर्वमाश्रयत्वाचविरहेऽपि न क्षतिः / तथा च वाय्वादेरस्पार्शनत्वे तवृत्तिस्पर्शस्पार्शनानुपपत्तिरेव मूर्तलौकिक प्रत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वाभावे विनिगमकमिति वाच्यम्, एकस्यामेव व्यक्तौ कालभेदेन त्वाचानामनन्ततया त्वक्संयुक्तत्वतत्समवेतत्वमपेक्ष्य त्वक्संयुक्तमहत्त्वोद्भूतस्पर्शवत्समवायसमवायत्वस्यैव लघुत्वात् / ननु तथापि विनिगमनाविरहेण मूर्तलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति उद्भूतरूपस्य हेतुतया माऽस्तु वायूष्मादेः त्वाचसाक्षात्कारः, माऽस्तु च संख्यापरिमाणादिसाधारणव्यासज्यवृत्ति गुण (त्वाच)त्वाचत्वावच्छिन्नं प्रति आश्रयत्वाचाभावस्य प्रतिबन्धकतया वाय्वादिवृत्तिसंख्यागुणस्यापि त्वाचादिसाक्षात्कारः, वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण वाय्वादिवृत्तिवायूत्वोष्मत्व द्रव्यत्वादिजातेश्च त्वाचसाक्षात्कारस्तु मीमांसकाभिमतो दुर्वार एव, द्रव्यान्यद्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवायत्वेनैव प्रत्यासत्तित्वात् त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपस्पर्शवत्समवायत्वेन प्रत्यासत्तित्वे गौरवात्, वायूष्मादिस्पर्शत्वाचे व्यभिचाराच्च / न च त्वक्सयुक्तप्रकृष्टमहत्त्वोद्भूतरूपसमवायस्य स्पर्शतरमूर्तसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति सन्निकर्षतया न वाय्वादिवृत्तिक्रियादेः स्पार्शनम् / स्पर्शप्रत्यक्षं प्रति तु त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवाय एव सन्निकर्ष इति वाच्यम्, गुरुतरकार्यकारणभावद्वयकल्पने गौरवान्मानाभावाच्च / वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण वाय्वादिवृत्तिवायुत्वोष्मत्वादिजातेश्च त्वाचप्रत्यक्षत्वस्येष्टत्वात्, प्राचामनभ्युपगममात्रस्याकिञ्चित्करत्वादिति नैयायिकसिद्धान्तं परिष्कुर्वन्ति / तदप्यसत् / यथा त्रसरेणुव्यावृत्तविजातीयमहत्त्वस्य सामान्यतो द्रव्यलौकिकप्रत्यक्षत्वमेव कार्यतावच्छेदकं लाघवात्, द्रव्यस्पार्शनस्य तु कार्यतावच्छेदकत्वे द्रव्यचाक्षुषं प्रति पृथग्महत्त्वसामान्यस्य कारणत्वकल्पनापत्तेरतस्त्रसरेणु चाक्षुषः किन्तु तद्वृत्तिरूपादिकमेव चाक्षुषमित्यस्य सुवचत्वेऽपि 'सरेणुश्चलतीति' प्रत्ययानन्तरं त्रसरेणु पश्यामी'त्यबाधितानुव्यवसायबलात् द्रव्यस्पार्शनस्यैव विजातीयमहत्त्वकार्यतावच्छेदकत्वस्वीकारस्तथा 'शीतो वायुर्वाती'त्यादिप्रत्ययानन्तरं 'वायुं स्पृशामि' इत्यबाधितानुव्यवसायानुपपत्तेरेव मूर्तलौकिकप्रत्यक्षस्योद्भूतरूपकार्यतावच्छेदकत्वाभावे विनिगमकत्वात् / मूर्तलौकिकप्रत्यक्षत्वस्यनित्यसाधारणतया कार्यतावच्छेदकत्वायोगाच्च / नित्यव्यावृत्तेधर्म(में) कार्यतावच्छेदके सम्भवति असति लाघवे तत्साधारणधर्मेण कार्यत्वकल्पनानुदयात् /