________________ // दर्भावतीमण्डन-परमप्रभावक-श्रीलोढणपार्श्वनाथाय नमः // न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद्यशोविजयगणिप्रणीतम् वायूष्मादेः प्रत्यक्षाप्रत्यक्षत्वविवादरहस्यम् / ॥ऐं नमः / / वायोश्चाक्षुषसाक्षात्कारवत् स्पार्शनोऽपि न साक्षात्कार इति नयायिक-सिद्धान्तो न श्रद्धयः, वायोरस्पार्शनत्वे शरीरवायुसंयोगानन्तरं 'शीतो वायुती'त्यादिवायुमुख्य विशेष्यकलौकिकस्पर्शनानुपपत्तेः / न.चासौ न स्पार्शनोऽपि तु मानस एवेति वाच्यम्, वायोः शीतस्पर्श स्पृशामि, 'वातं स्पृशामो'त्याद्यनुव्यवसायानुपपत्तेः / न चासौ भ्रमो बाधकाभावात् / न च वायूनां विषयविधया ततद्वयक्तित्वेन स्वविषयकलौकिकप्रत्यक्षं प्रति कारणत्वकल्पनागौरवमेव बाधकमिति वाच्यम्, विषयस्य तत्तद्वयक्तित्वेन कारणत्वे मानाभावात्, विषयस्य तत्तद्वयक्तित्वेन कारणतावृद्धिभियाऽतीन्द्रियत्वाभ्युपगमे घटादेरपि तथात्वापत्तेः / न चोद्भवरूपस्य द्रव्यचाक्षुषवत् द्रव्यस्पार्शनेऽपि हेतुत्वात् कारणाभाव एव बाधक इति वाच्यम्, मानाभावात् / प्रभायाः स्पार्शनवारणाय उद्भूतस्पर्शस्य द्रव्यत्वस्पार्शनहेतुत्वावश्यकतया तत एव पिशाचादेर्गगनादेश्चास्पर्शनत्वोपपत्तेः। न च 'प्रभा हि तेजसो रूपमिति नये विनिगमनाविरहादेवोद्भूतरूपस्यापि द्रव्यस्पार्शनहे तुत्वमिति वाच्यम्, तथाऽप्युक्तप्रतीतेर्धमत्वकल्पनाया एव विनिगमकत्वात् / उद्भूतरूपस्य हेतुत्वेऽपि त्रसरेणुस्पार्शनवारणाय द्रव्यस्पार्शनं प्रति उद्भूतस्पर्शस्य हेतुत्वावश्यकताया विनिगमकत्वाच्च / न चैवमूष्मणो भर्जन कपालस्थवह्नयादेश्च स्पार्शनापत्तिः स्पार्शनं प्रति रूपस्माहेतुत्वादिति वाच्यम्, इष्टत्वात् / न च वायूष्मणास्त्वाचाभ्युपगमे वृत्तिसंख्यादेरपि त्वाचापत्तिरिति बाच्यम्, इष्टत्वादिति मीमांसकाः / तत्र प्राश्चो नैयायिकाः, सामान्यतो मानसेतरद्रव्यलौकिकप्रत्यक्षत्वाद्यवच्छेदेनैव द्रव्यलौकिकचाक्षुषं प्रत्युद्भूतरूपस्य हेतुत्वान वायोः स्पार्शनसाक्षात्कारसम्भवः, सामान्यसामग्र्या सहिताया एव विशेषसामग्र्याः कार्योपघायकत्वात् / न च तादृशकार्यकारणभावे मानाभाव इति वाच्यम्, वाय्वादेः पिशाचादेरात्मनश्च लौकिकचाक्षुषवारणाय द्रव्यलौकिकचाक्षुषं प्रत्युद्भूतरूपस्य हेतुत्वावश्यकतया तस्यैव सामान्यतो मानसेतरद्रव्यलौकिकप्रत्यक्षत्वस्य कार्यतावच्छेदकत्वात्, असति बाधके सामान्यधर्मावच्छेदेनैव कार्यतादिग्राहकप्रमाणप्रवृत्तेरित्याहुः / तदसत्। मानसेतरद्रव्यप्रत्यक्षत्वस्याऽऽत्मेतरद्रव्यप्रत्यक्षत्वमादाय विनिगमनाविरहग्रस्ततया द्रव्यचाक्षुषत्वमपेक्ष्य शरीरगुरुतया च द्रव्यचाक्षुषत्वस्यैवोद्भूत(रूप)कार्यतावच्छेदकत्वौचित्यात् / बाधकसत्त्वे सामान्यस्याकिञ्चित्करत्वात् / नैयायिकैकदेशिमस्तु मूर्तलौकिकप्रत्यक्षत्वद्रव्यलौकिकचाक्षुषत्वयोः समशरीरतया विनिगमकाभावादुभयमेवोद्भूतरूपकार्यतावच्छेदकम्, अतो न वायूष्मादेः स्पार्शनसाक्षात्कारसम्भवः / न च