________________ वायूष्मादेः प्रत्यक्षाप्रत्यक्षत्वविवादरहस्यम् [ 143 अनिर्णयत्वादिति चेत् ? न, एवंविधविरोधे विषयमात्रासिद्धेः विनिगमनाविरहादुभयोरेव साङ्कर्यवारणाय भ्रमत्वकल्पनेऽपि वाय्वादेः प्रत्यक्षत्वादिसिद्धेश्च / एकत्वनिष्ठेकवेजात्यस्यैव द्रव्यचाक्षुषस्पार्शनोभयजनकतावच्छेदकत्वादिति प्रबलतरयुक्त्या नैयायिकसिद्धान्तं परिष्कुर्वन्ति। तदपि न सम्यगिति प्रतिभाति / स्पार्शनजनकतावच्छेदकवैजात्यव्यापकत्रसरेण्वेकत्वसाधारणवजात्यं हि नित्यैकत्वसाधारणं निखिलतद्वयावृत्तं वा ? आये यदि नित्यैकत्वेषु मध्ये परमाण्वेकत्वमात्रसाधारणं तदा द्रव्यचाक्षुषं प्रति महत्त्वस्य कारणत्वमावश्यकम् / यदि च गगनाद्येकत्वमात्रसाधारणं तदा द्रव्यचाक्षुष प्रति रूपस्य कारणत्वमावश्यकम् / तथा च कार्यकारणद्वयमविशिष्टमेव, एकत्वनिष्ठवैजात्यकल्पनं पुनरधिकम् / अन्त्येऽपि कार्यमात्रवृत्तिजातितया तदवच्छिन्नं प्रति कस्यचित्कारणत्वस्यावश्यकतया द्रव्य चाक्षुषं प्रत्येकत्वस्य कारणत्वमादाय कारणताद्वयकल्पनमविशिष्ट मेव / एकत्वनिष्ठवैजात्यकल्पनं पुनरधिकमेव कार्यमात्रबृत्तिजातेः कार्यतावच्छेदकत्वनियमस्य सकलप्रामाणिकसिद्धत्वात् / . . किञ्च घटाकाशसंयोगद्वित्वादे: स्पाशनवारणाय व्यासज्य वृत्तिमणत्वाचं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन लौकिक विषयत्वावच्छिन्नत्वाचाभावस्य प्रतिबन्धकत्वमावश्यकम् / तस्य च प्रतिबध्यता. वच्छेदकं न व्यासज्य वृत्तिगुणत्वाचत्वम् / गुणादित्वाचं प्रति प्रकृष्ट महत्त्ववदुद्भूतस्पर्शवत्समवायस्यातिरिक्तकारणत्वकल्पनापत्तेः / अपि तु निखिलगुणकर्मत्वाचसाधारणं द्रव्यान्यसत्त्वाचत्वमेव तत्प्रतिबध्यतावच्छेदकम् / द्रव्यान्यसत्त्वं च प्रतिबध्यतावच्छेदकतया विशेषगुणकर्ममात्रवृत्तिजातिविशेष इति त्वक्संयुक्तसमवायादिसन्निकर्ष हेतुत्वनिराकरणावसरे प्रपञ्चितम् / तथा च वायूष्मा. देरस्पार्शनत्वे तवृत्तिस्पर्शस्याप्यस्पार्शनोपपत्तिः / नच स्पर्शतरद्रव्यान्यसत्त्वाचत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम्, स्पर्शतरत्वप्रवेशे गौरवापत्तेः / स्पर्शतरत्वप्रवेशे घटाकाशसंयोगादी स्पार्शनसामान्यापत्तिवारणाय स्पार्शनं प्रति स्पर्शत्वेन परमाण्वादिस्पार्शनवारणाय प्रकृष्टमहत्त्वत्वेन चातिरिक्तका(रणत्वाऽऽ)पत्तश्चेति समासः / स्पर्शाभावस्य विजातीयस्पार्शाभावस्य वा तत्प्रतिबन्धकत्वे तु न किञ्चिदेतत् / वैजात्यं तु फलबलकल्प्यमिति ध्येयम् / इति वायूष्मादेः प्रत्यक्षत्वाप्रत्यक्षत्वविवादरहस्यं समाप्तम् //