________________ विषयतावादः [135 अथ वहून्यादिप्रकारकापत्तित्वमेव तादृशानुव्यवसायविषयः तादृशधर्मप्रकारकत्वावच्छिन्नविषयतासम्बन्धेन तादृशानुव्यवसायं प्रति च वन्यभाववत्तानिर्णयजन्यताया हेतुत्वान्नो. पदर्शितसमूहालम्बनान्तरं तादृशानुव्यवसायप्रसङ्गः आपत्तित्वं च मानसत्वव्याप्य जातिविशेषः / न च वहूनिमापादयामीत्याद्यनुव्यवसायसाक्षिकपर्वतादिविषयतानम्युपगमे वह्नयादिव्याप्यवत्तादिनिर्णयजन्यतावच्छेदकं वहन्यादिप्रकारकापत्तित्वमेव वाच्यं तथा च तादृशसमूहालम्बनापत्यादौ व्यभिचार इति वाच्यम् अनुमितिस्थलीयकार्यकारणभाव इव कारणवैशिष्टयं निवेश्यैव व्यभिचारस्य वारणोयत्वात् , भवन्मतेऽप्यन्यापादकापत्ती व्यभिचारवारणाय वैशिष्टयनिवेशस्यावश्यकत्वात् एवं वन्यभाववत्तानिर्णयजन्यतावच्छेदककोटावपि तद्वैशिष्टस्य निवेशनीयतया न तस्य समूहालम्बना पत्त्यादौ व्यभिचारः, भवन्मतेऽपि वह्निमद्भेदादिनिर्णयजन्यवन्याद्यापादकापत्तौ व्यभिचारवारणाय तद्वैशिष्टयनिवेशस्यावश्यकत्वात् / न च पर्वतत्वाधवच्छिन्नविशेष्यकवहून्यादिविशिष्टबुद्धौ पर्वतत्वाद्यवच्छिन्नविशेष्यकवहन्यभावादिमत्ता निर्णयाभावहेतुतायां पर्वतो वहूनिमान् स्यादित्यापनो व्यभिचारवारणाय पर्वतत्वाद्यवच्छिन्नविशेष्य कव हून्यद्यापादकापत्यन्यत्वं जन्यतावच्छेदककोटौ निवेश्यमिति तज्जन्यतावच्छेदककोटिप्रविष्टतया विशेष्यताविषयताविशेषसिद्धिः वहूनित्वप्रकारकान्यत्वस्य तत्र निवेशे 'वह्निमान् पर्वतः पर्वतो घटवान् स्यात्'इत्यादिसमूहालम्बनानां तादृशबोधदशायामापत्तेरिति वाच्यं, जन्यतासम्बन्धेन वहून्यभाववत्तानिर्णयवदन्यत्वस्यैव तत्र निवेशनीयतया व्यभिचारापत्तेवारणसम्भवात् / न च जन्यत्वनिवेशनापेक्षया विषयताविशेषनिवेशे लाघवात्तत्सिद्धिरिति वाच्छ कार्यतावच्छेदकलाघवेनातिरिक्तविषयतासिद्धी तत्तदापाचव्यतिरेकज्ञानजन्यतावच्छेदकतया विषयताविशेषाणां सिद्धिप्रसङ्गात् / वस्तुतत्तु बाधाभावजन्यतावच्छेदकोटौ सम्बन्धेन बाधवदन्यत्वस्य निवेशनमेवोचितम् अन्यथा, बाधकालीनेच्छाजन्यज्ञाने व्यभिचारवारणायेच्छाया उत्तेजकत्वे गौरवात् मन्मते आहार्यज्ञानस्यापि बाधजन्यतया तस्य तादृशकार्यतावच्छेदकानाक्रान्ततयैव व्यभि नारासम्भवेनेच्छाया उत्तेजकत्वानभ्युपगमात् / न च बाधकालीनेच्छाधीनज्ञाने बाधहेतुताया अप्रामा णकतया एतदनुरोधेन तत्कल्पने च गौरवादिच्छाया उत्तेजकत्वमावश्यकमिति वाच्यम्, आपत्तिस्थले बाधहेतुताया आवश्यकत्वातत्रापत्तित्वमनिवेश्येच्छाकालोनज्ञानसाधारणतादृशबाधा व्यवहितोत्तरज्ञानत्वस्यैव तज्जन्यतावच्छेदकत्वोपगमादतिरिक्तकारणत्वाकल्पनात् न चैवमापत्त्यन्यज्ञानस्यापि बाधकाले इच्छां विनापत्तिरिति तत्रेच्छाहेतुत्वकल्पने गौरवमिति वाच्यम् इच्छाया उत्तेजकत्वेऽप्रा माण्यग्रहादिभिः सममिच्छाsभावस्य विशेषणविशेष्यभावे विनिगमनाविरहेणानुगतत्वादिच्छाया हेतुत्वकल्पनस्यैवोचितत्वादिति चेत्, मैवम् आपाद्यत्वरूपविशेषानभ्युपरगमे ज्ञाननिष्ठो वहन्यादिप्रकारकापत्तित्वाभाव आत्मनिष्ठ