________________ 134 विषयतावादः मित्यादौ पूर्वोक्तयुक्त्या सिद्धस्य विषयताविशेषस्य पर्वतो वहनिमान् पृथिवीतरभेदवतात्याद्याकारकाकानुमित्यादावेतादृशलाघवेन सम्बन्धः कल्प्यते इति न काचिदनुपपत्तिरिति / अथ पृथियामितरभेद 'इतरभेदवती पृथिवी' इत्याद्या कारकानुमित्योरेतादृशविधेयतास्वीकारे साध्यविशेष्यकानुमितो साध्यप्रसिद्धेः प्रतिबध्यतावच्छेदकं दुर्वचं, तथाहि-इतरभेदज्ञानस्य प्रतिबध्यतावच्छेदकं यदीतरभेद विशेष्य कानुमितित्वं तदेतरभेदः पृथिवीव्याप्यवानित्यादिपरामर्शजन्येतरभेदपक्षकानुमितौ व्यभिचारः, इतरभेदविधेयकत्वे सति तद्विशेष्यकानुमितित्वस्य प्रतिबध्यतावच्छेदकत्वेऽपि पृथिवीतरभेदव्याप्यवतीतरभेदः पृथिवीव्याप्यवानित्याद्याकारकसमूहालम्बन जन्यायाः [यां] पृथिवोतरभेदवती पृथिव्यामितरभेद इत्येतादृशसमूहालम्बनानुमितो व्यभिचारः तादृशानुमितेरितरभेदविधेयकत्वात्तद्विशेष्यकत्वाच्च / मन्मते अत्र प्रकारताभिन्नेतरभेदविधेयतैवेतरभेदज्ञानप्रतिबध्यतावच्छेदिकेति न व्यभिचारः, तादृशसमूहालम्बनानुमितिनिरूपितेतरभेदविधेयतायाः प्रकारतारूपतया तदन्यत्वाभावादिति चेत् , न, इतरभेदविशेष्य कपरामर्शाजन्येतरभेदविशेष्यकानुमितित्वस्यैव मन्मते इतर भेदज्ञानप्रतिबध्यतावच्छेदकत्वोपगमात् , पृथिवीव्याप्यवानितरभेद इत्याकारकपरामर्शजन्यानुमितेश्चेतरभेदविशेष्यकपरामर्शजन्यत्वेन व्यभिचारानवकाशात् / न चैतादृशगुरुधर्मस्य साध्यसिद्धिप्रतिबध्यतावच्छेदकत्वे गौरवात् पृथिवीतरभेदवतीत्याद्या कारकानुमितिनिरूपितप्रत्यक्षादिसाधारणेतरभेदादिप्रकारतायां विधेयतात्वकल्पनमेवोचितमिति वाच्यं तथा सति धर्मितावच्छेदकभेदेनानन्तबाधबुद्धयादिप्रतिबन्धकतायां प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशेन गौरवात्तदपेक्षया धर्मिविशेषामिश्रितसाध्यप्रसिद्धिप्रतिबन्धकतायां तादृशधर्मस्य प्रतिबध्यतावच्छेदककोटिनिवेशनौचित्यादिति एवमापत्तिस्थले आपाद्यत्वमपि विषयताविशेषः आपत्तिनिरूपितप्रकारतासामान्यस्यापाद्यतारूपत्वे वनिमान पर्वतो घटवान् स्यादित्याद्याकारकापत्तेरपि वहन्यादेरापाद्यतापत्तेः 'पर्वतो वह्निमान्' इत्याद्याकारकवह्नयाद्यनवच्छिन्नविशेष्यताशालिज्ञानीयविलक्षणवन्यादिप्रकारतायास्तत्त्वोपगमेऽपि वह्निमान् पर्वतः पर्वतो घटवान् स्यादित्याद्याकारकापत्तो वहन्यादेस्तथात्वापत्तेर्दुर्वारत्वाद् / अथ स्वव्यतिरेकनिर्णयजन्यतदापत्तिविषयत्वमेव स्वस्य तदापत्तिनिरूपितमापाद्यत्वमस्तु किमतिरिक्तविषयतात्वीकारेण ? उक्तसमूहालम्बनापत्तौ घटव्यतिरेकनिर्णयस्यैव हेतुतया वहन्यादेस्तदापाद्यत्वासम्भवादिति चेत्, न, तादृशव्यतिरेकनिर्णयजन्यत्वाद्यनुपस्थितावपि वन्यादिनिष्ठपाद्यत्वावगाहिनो वह्निमापादयामीत्याद्यनुव्यवसायस्यानुभवसिद्धतयापाद्यत्वस्य स्वव्यतिरेकनिर्णयजन्यतदापत्तिविषयरूपत्वासम्भवात् /