________________ विषयतावादः द्देश्यकत्वानुपपत्तिरित्यतिरिक्तविधेयत्वादिकल्पनमावश्यम् / न च पर्वतो वह्निमानितिवत्तत्र नास्त्येव पर्वतवहन्योरूदेश्यविधेयभावः, किन्तु विशेषणविशेष्यभावापन्नयोर्वहानपर्वतवृत्तित्वयोरेवेति वाच्यं, शाब्दबोधस्थले प्राग्निष्ट [निर्दिष्ट] स्यैवोदेश्यतया चरमनिर्दिष्टपदार्थस्यैव विधेयतया तादृशवाक्यजन्यशाब्दबोधे वहूनिपर्वतवृत्तित्वयोरुद्देश्यविधेयभावासम्भवात् , अन्यथा वहनिः पर्वते पर्वते वनिरित्येतादृशवाक्यजन्यशाब्दबोधयो विशेषणविशेष्यभावावैलक्षण्येन वैलक्षण्यानुपपत्तेः / अत एव गुणानां गुणत्वमित्यत्र गुणत्वस्यैवोद्देश्यतावच्छेदकत्वं तस्यैव विधेयत्वमित्यभिप्रायेणोपाये उपायकृतोद्देश्यतावच्छेदकत्वविधेययोरैक्ये शब्दबोधानुपपत्तिराशङ्किता, यदि च विशेषण विशेष्ययोरेवोद्देश्यविधेयभावस्तदा तत्र गुणत्वस्योद्देश्यताच्छेदकतया गुणवृत्तित्वस्य विशेषणतया गुणत्वस्यातथात्वेन तदसङ्गतमेव स्यादिति / विधेयत्वादीनां प्रकारताविशेषादिरूपत्वे इतर (त्व)व्यापकोभूताभावप्रतियोगिमती पृथिवीत्यादिपरामर्शजन्यायाः पृथिव्यामितरभेदइत्याद्याकारिकायाः साध्यविशेष्यकानुमितेस्तद्विधेयकत्वानुपपत्त्या तदुत्तरमितरभेदं नानुमिनोमोत्याद्यनुव्यवसायापत्तिः, न च तादृशज्ञानीयेतरभेदविशेष्यतायामेव विधेयतात्वोपगमान्न तादृशानुमितेरितरभेदादिविधेयकत्वानुपपत्तिरिति वाच्यं, तथा सति पृथिवीव्याप्यवानितरभेदइत्याद्याकारकपरामर्शजन्याया आधारतासम्बन्धेन पृथिव्यादि साध्यकतथाविधानुमितेरपीतरभेदादिविधेयकत्वोपपत्तेः तथविधानुमित्यो_लक्षण्याभावप्रसङ्गात् / अथ 'पर्वतो वह्निरित्यादि शाब्दबोघे 'पृथिव्यामितर भेद' इत्याद्यनुमितावतिरिक्तविधेयत्वादिसिद्धावपि 'पर्वतो वहनिमान्' 'पृथिवीतरभेदवती' इत्याद्याकारकानुमित्यादौ प्रकारतातिरिक्त विधेयत्यादौ मानाभावः वह्नयादिवृत्येकैकप्रकारत्वादिनिरूपकीभूतानन्तानुमित्यादिव्यक्तिव्यतिरिक्तविधेयतासम्बन्धकल्पनापेक्षया तादृशप्रकारत्वादौ विधेयतात्वादिकल्पनाया एमोचित्वादिति चेत् , न , प्रत्यक्षादिसाधारणप्रकारताया विधेयतात्वाङ्गीकारेऽनुमित्यादिस्थले बाधबुद्ध्यादीनां प्रतिबन्धकतायामिच्छाधीनप्रत्यक्ष व्यभिचारवारणाय प्रत्यक्षान्यत्वस्य प्रतिबध्यतावच्छेदककोटो निवेशे गौरवप्रसङ्गात् / ____ मन्मते तु-विधेयताया एव तादृशप्रतिबध्यतावच्छेदककोटौ निवेशनीयतया तस्याश्च प्रत्यक्षसाधारण्या अनभ्युपगमे व्यभिचारविरहेण प्रत्यक्षान्यत्वस्यानिवेशात् / न च परोक्षत्वजातेः प्रतिबध्यतावच्छेदकत्वोपगमेनैवाहार्यप्रत्यक्ष व्यभिचारवारणसम्भवेन मयाऽपि प्रत्यक्षान्यत्वं न निवेश्यत इति वाच्यं, परोक्षत्वजातेरन्यत्र दूषितत्वात् / अथ लाघवेनातिरिक्तविषयतासिद्धेः प्रागेव निरस्तत्वात् कथमेतादृशयुक्त्या तादृशानुमित्यादावतिरिक्तविधेयता सेस्यतोति चेत् , न, एतादृशयुक्त्यैतादृशविषयता न कल्प्यते किन्तु पर्वते वह्निः पृथिव्यामितरभेदः इत्याद्याकारकशाब्दानु