________________ 136] विषयतावादः स्तदृशापत्तित्वावच्छिन्नाभावो वा वहनिमापादयामीत्यनुव्यवसायविषयो वाच्यो, न तु वहन्यादिव्यतिरेकनिर्णय जन्यत्वविशिष्टापत्तित्वाधभावः, तादृशजन्यत्वाद्यनुपस्थितिदशायामपि तादृशप्रतीतेः सर्वानुभवसिद्धत्वात् / तथा च पूर्वोपदर्शितसमूहालम्बनदशायां धटमापादयामि न वनिभित्याद्यनुव्यवसायानुपपत्तिरिति तादृशविषयतास्वीकार आवश्यक इति / एवं च तादृशविषयतानिरूपकत्वमेवापत्तित्वं न तु जातिविशेषो मानाभावात् / आपत्त्यन्यज्ञाने तादृशविलक्षणविषयता भावादेवापादयामीत्याद्यनुव्यवसायविरहोपपत्तिरिति बोध्यम् / अत्रेदमवधेयं विधेयत्वमेवापत्तिः स्वीक्रियते तथा चापत्तिनिरूपितविधेयत्वमेवापायत्वं पर्वतो वहूनिमान् पर्वतो घटवान् स्यादित्याद्याकारकापत्तौ घटस्यैव विधेयत्वमुपगम्यते न तु. बनेरतो न तादृशापत्त्यनन्तरं धटमापादयामि न तु वहूनिमित्याद्याकारकानुव्यवसायानुपपत्तिः विधेयताया अनुमित्यादिसाधारण्येऽपि तत्रापत्तित्वाख्यजाति विशेषाभावान्न तदनन्तरम् , आपादयामीत्यनुव्यवसायआपत्तित्वजातौ मानाभावादिति तु न वाच्यम् आपादयामीत्यनुव्यवसायस्यैव मानत्वाद्विषयभेदेनानन्तविषयताकल्पनापेक्षया जातिकल्पने लाघवस्यैव विवादभञ्जकत्वात् / न च भवन्मते बाधबुद्धिप्रतिबध्यतावच्छेदककोटौ तद्विधेयकविजातीयज्ञानभिन्नत्वं निवेश्यं तद्विधेयकान्यत्वनिवेशेऽनुमित्याद्यसङ्ग्रहापत्तेः / मम तु तन्निष्ठविलक्षणविषयताकान्यत्वमेव निवेश्यत इति वाच्यम् इच्छाधीनज्ञाने व्यभिचारवारणायोत्तेजकत्वकल्पनापेक्षया लाघवेन जन्यतासम्बन्धेन बाधवदन्यत्वस्यैव निवेशितत्वात्तेनैवापत्तावपि व्यभिचारवारणात् / कार्यतावच्छेदकत्वादिलाधवे. नातिरिक्तविषयता सिद्धेः प्रतिबन्धकसहस्रकवलितत्वात् / एतेनानुमित्यादिसाधारणविलक्षणविषयताया आपत्त्यादिसाधारण्येन तत्स्थलीयप्रतिबन्धकतायां प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्वमापत्त्यन्यत्वं निवेशनी नीयमिति गौरवमित्यपि परास्तमिति कृतं पल्लवितेन ॥श्रीः॥ समाप्तोऽयं न्यायविशारदन्यायाचार्यश्रीमद्-यशोविजयवाचक विरचितो विषयतावादः। अयं विषयतावादः परमपूज्यआचार्यश्रीविजयधर्मसूरीश्वरशिष्य मुनिश्रीयशोविजयेन संशोधितः / वि. सं. 2017 वर्षे मुंबई नगरे /