________________ पादमाला [3] [129 तद्गतवैजात्यं तु न गृहयते तद्ग्रह एवावरकसंयोगस्य विरोधित्वादिति वाच्यम् , एकत्रावरकसंयोगसत्त्वेऽप्यन्यत्र द्विहस्तवंशसन्निकर्षेण तादृशवैजात्यस्य प्रत्यक्षतया तथा तद्ग्रहं प्रत्यावरकसंयोगस्य विरोधित्वासंभवात् नचैवमपि घटपरमाण्वोर्घटाकाशयोर्वा संयोगस्य प्रत्यक्ष परैरप्ययोग्यतायाः। तस्य वारणीयत्वात् , द्रव्यान्यसमवेत चाक्षुषत्वावच्छिन्न प्रति महत्त्वविशिष्टरूपत्वावच्छिन्नाभावस्याखण्डस्य स्वाश्रयसमवेतत्वेन प्रतिबन्धकत्वेन तन्निराससंभवाच्च, एवं च सत्यपि चक्षुःसन्निकर्षे प्रथमं घटस्यैव प्रत्यक्षं न तु घटत्वादेर्हेतुभूताश्रयचाक्षुषस्य प्रागसत्त्वात् , अनन्तरं घटत्वादिजातिरूपादिगुणानां तदुत्तरं रूपत्वादेश्वाक्षषं, पूर्वपूर्वाश्रय चाक्षुषात्मकहेतुसम्पत्तेरित्यवश्यं निर्विकल्पकसिद्धिरपि सामग्रीविरहेण प्रागेव विशिष्टबुद्धयसंभवात् / न च यत्र घटचक्षुःसंयोगनाशदशायामेव घटस्य चाक्षुषं तत्रेन्द्रियसन्निकर्षविगमोत्तरमपि क्रमेण तदोयरूपरूपत्वलौकिकचाक्षुषापत्तिः / कारणीभूताश्रयचाक्षुषस्य पूर्वपूर्व सत्त्वादिति वाच्यम् , द्रव्यचाक्षुषे चक्षुःसंयोगस्य कार्यसहवृत्तितया हेतुत्वेन तत्र घटस्यैव प्रत्यक्षानुत्पत्तेःउक्यतक्रमेण प्रत्यक्षस्वीकारेऽपि क्षत्यभावाच्चेत्याहुः / परे तु द्रव्यान्यचाक्षुषत्वावच्छिन्न प्रति नाश्रयचाक्षुषत्वेन हेतुता तथा सति चक्षुःसंयोगस्येव महत्त्वस्यापि द्रव्यचाक्षुषं प्रति हेतुत्वकल्पनापत्तेः, अन्यथा परमाण्वादेश्वाक्षुषत्वप्रसंगात् द्रव्यान्यद्रव्यसमवेतत्वयो विशेषणविशेष्यभावे विनिगमकाभावेन कार्यकारणभावद्वयापत्तेश्च, किन्तु द्वयणुकान्यवृत्तिगोचरचाक्षुषत्वावच्छिन्न प्रति द्वयणुकान्यवृत्तिविषयतया, चाक्षुषत्वावच्छिन्नं प्रत्येव वाश्रयचाक्षुषत्वेन हेतुत्वं, तथा च द्वयणुकस्यापि द्वयणुकान्यसमवेतत्वादाश्रयचाक्षुषविरहादेवाप्रत्यक्षत्वसंभवान्न महत्त्वापेक्षा, एवं च द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यपि चक्षुःसंयुक्तसमवायत्वेनैव हेतुत्वं न तु चक्षुःसंयोगत्वेन परमाणोश्चाक्षुषत्वप्रसंगादित्याहुः / .. ननु घटाघेकैकचक्षुःसंयोगदशायां घटपरयोः संयोगस्य द्वित्वस्य च प्रत्यक्षवारणार्थमवश्यं व्यासज्यवृत्तिधर्मप्रत्यक्षे यावदाश्रयसन्निकर्षों हेतुर्वाच्यः, तथा च तत्तद्रव्यविषयकततत्समवेतचाक्षुषत्वावच्छिन्ने तत्तद्र्व्यचक्षुःसंयोगत्वेनैव हेतुत्वं पर्यवसन्नमन्यस्य दुर्वचत्वात् / ____ तथा च तत एवाऽसन्निकृष्टद्रव्याप्रत्यक्षतोपपत्तौ द्रव्यचाक्षुषं प्रति चक्षुःसंयोगस्य हेतुत्वे मानाभावः / न च तत्तद्रव्यविषयकेत्यधिकं विनापि तत्कपालचक्षुःसंयोगं कपालान्तरचक्षुःसंयोगदशायां तत्कपालसमवेतद्रव्यत्वादिजातिघटकप्रत्यक्षोत्पादेन तद्वयभिचारवारकत्वात् / न च तथापि तत्तद्रव्यचक्षुःसंयोगहेतुतया कपालविषयघटचाक्षुषोपपत्तावपि तदविषयकतदुपपादनार्थ द्रव्यचाक्षुषे चक्षुःसंयोगत्वेन हेतुत्वमावश्यकमिति वाच्यम्, कपाला दिविषयकस्यैव घटचाक्षुषस्योपगमात् / अत एवोक्तहेतुं विना तदविषयकतदापत्तिखे युक्ता तस्याप्रसिद्धत्वेनानापाद्यत्वात् / ___ न चैवं घटाकाशसंयोगादिप्रत्यक्षापत्तिगुरुत्वादेरिव तस्यायोग्यतयैवाप्रत्यक्षत्वसंभवात् / यदि चातत्त्वतत्त्वेन प्रतिबन्धकत्वविश्रामे गौरवं तदास्तु द्रव्यान्यद्रव्यसमवेत चाक्षुषत्वावच्छिन्ने स्वा