________________ 125] वादमाला [3] * हेतुस्तेन न द्वयणुकस्य तदीयरूपादेर्वा साक्षात्कार इति चेत् , उच्यते द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायत्वेन हेतुतया न निर्वाहः / परमाणुद्वयणुकपिशाचादिसन्निकर्षादपि द्रव्यत्वसत्तापृथिवीत्वादिचाक्षुषापत्तेः, घटादिगतमहत्वोदभूतरूपयोरपि तत्र स्वाश्रयसमवेतत्वप्रत्यासत्या सत्त्वात् / महत्वोद्भूतरूपयोः प्रत्यासत्तिमध्ये निवेशे च त्रुटेरचाक्षुषत्वापत्तेः / द्रव्यान्यद्रव्यसमवेतत्वस्य कार्यदिशि प्रवेशे त्रुटिचाक्षुषानुरोधेनैव द्रव्ये चाक्षुषे चक्षुः संयोगहेतुतावश्यकत्वात् / न च त्रुटिचाक्षुषत्वावच्छिन्नं प्रत्येव तद्धेतुत्वं द्रव्यत्वापेक्षया त्रुटित्वस्य गुरुत्वात् / घटाद्यनन्तव्यक्तीनां कार्यतावच्छेदककोटिनिवेशे गौरवान्निश्चिताव्यभिचारकं त्रुटिचाक्षुषत्वमेव कार्यतावच्छेदकमिति पुनरुत्तानाः / परमाण्वाद्यवच्छेदेन घटादिसन्निकर्षेऽपि तद्गतरूपाग्रहाद्व्यसमवेतचाक्षुषप्रयोजकचक्षुःसंयोगगतवैजात्यस्वीकारेणैव परमाण्वादिघटितसन्निकर्षेण द्रव्यत्वाद्यग्रहोपपत्तावपि तादृशविजातीयसंयोगस्य द्वयणुके स्वीकारे तद्गतरूपादिप्रत्यक्षापत्तिः, तत्र तंदस्वीकारे च त्रुटेर चाक्षुषत्वापत्तिरिति त्रुटिचाक्षुषानुरोधेन द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमिति बोध्यम् / एतेन विजातीयैकत्वनिवेशोऽपि व्याख्यातः / / यत्तु गुरुत्वत्वस्य तद्वयाप्यतोलकत्वादेः स्पर्शत्वरसत्वादेश्चाक्षुषत्ववारणाय तादात्म्येन तत्तद्वयक्तित्वेन चक्षुषःप्रतिबन्धकत्वकल्पनामपेक्ष्य जातिचाक्षुषत्वावच्छिन्नं प्रत्याश्रयचाक्षुषस्य हेतुत्वमेव कल्पने लाघवात्, तथा च परमाण्वादिमात्रसन्निकर्षदशायामाश्रयचाक्षुषाभावादेव द्रव्यत्वाद्यचाक्षुषत्वोपपत्तव्यसमवेतचाक्षुषं प्रत्येव संयुक्तसमवायत्वेन हेतुत्वं निराबाधम् / न चैकजात्याश्रयचाक्षुषादपरजातिप्रत्यक्षापात्तेर्विषयताया जातिचाक्षुष प्रति स्वाश्रयसमवेतत्वसम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वात् / न च यत्र घटनाशदशायां घटस्य चाक्षुषप्रत्यक्षं तदुत्तरं च पिशाचेन चक्षुः संयोगस्तत्र द्रव्यत्वचाक्षुषप्रसंगः / आश्रयचाक्षुषसन्निकर्षयोः सत्त्वादिति वाच्यमिष्टत्वादिति मतं, तदतिस्थवीयः, विनापि घटचाक्षुषं घटपटत्वयोरेकदानिर्विकल्पकचाक्षुषोत्पत्त्या व्यभिचारात् / ___न च जातिचाक्षुषत्वमाश्रयचाक्षुषजन्यतावच्छेदकै किन्तु गुणकर्मजातिसाधारण्येन लाघवाद्द्रव्यभिन्नसमवेतचाक्षुषत्वमेव / घटत्वस्येव घटीयरूपादेरपि घटनिर्विकल्पकोत्तरमेव चाक्षुषोपगमेऽपि क्षत्यभावात् तथा च द्रव्यचाक्षुषत्वावच्छिन्नं प्रति च चक्षुःसंयोगत्वेन हेतुत्वमायाति न तु संयुक्तसमवायस्य प्रत्यासत्तित्वमपीति न किंचिदेतदिति दिग। ___ स्वतन्त्रास्तु द्रव्यचाक्षुषं प्रत्येव चक्षुःसंयोगत्वेन हेतुत्वं न तु द्रव्यसमवेतचाक्षुषादौ चक्षुः संयुक्तसमवायत्वादिना गौरवात्, गुरुत्वत्वरसत्वगन्धत्वादिचाक्षुषवारणाय द्रव्यान्यसमवेतचाक्षुषत्वावच्छिन्नं प्रत्याश्रयचाक्षुषत्वेन हेतुत्वावश्यकतया तत एवानतिप्रसंगात् , तत्तज्जातित्वेन प्रतिबन्धकत्वपयेवसितस्याऽयोग्यत्वस्य कल्पने गौरवात् / अत एव सत्यपि सन्निकर्षे निखातवंशादिपरिमाणगतवैजात्यस्य द्विहस्तत्वादेरग्रहः परिमाणप्रत्यक्षे प्रत्यावरकद्रव्यसंयोगस्य विरोधितयाश्रय प्रत्यक्षविरहात् / न च तत्र परिमाणं गृह्यत एव