________________ वादमाला [3] [123 दकं वैजात्यं द्रव्यचाक्षुषजनकतावच्छेदकवैजात्याद्भिन्नमेव युक्तं न तु तदेवेति वाच्यम् , ताहशवैजात्यान्तरकल्पने गौरवात् , वायोरस्पार्शनत्ववत् प्रभाया अचाक्षुषत्वेऽपि बाधकाभावात् / भिन्नस्यापि तस्येतरव्याप्यत्वेन घटादौ चाक्षुषजनकस्यैवयोगस्य स्पार्शनजनकत्वेनोक्तदोषानुद्वाराच्च / किंचैकस्य विलक्षणचक्षुःसंयोगदशायामन्यस्य चाक्षुषापत्या तत्पुरुषीयद्रव्यचाक्षुषत्वावच्छिन्नं प्रति तत्पुरुषीयचक्षुःप्रतियोगिकविलक्षणसंयोगत्वेन गुरुणापि हेतुत्वमावश्यकम् / वस्तुतः समवेतत्वेनैव स्वप्रतियोगिकत्वेन चक्षुर्विशिष्टत्वमेव निविशत इति क्व गौरवमिति चेत् , न, द्रव्यवृत्त्यभावचाक्षुषं प्रत्यपि तादृशचक्षुःसंयोगवद्विशेषणतैव प्रत्यासत्तिर्वाच्या, अन्यथान्धकारेऽपि चक्षुःसंयुक्तवाय्वादिविशेषणतया वाय्वादौ रूपाद्यभावग्रहप्रसंगात् , इत्थं चालोकसंयोगदशायां वाय्वादौ रूपाद्यभावग्रहवेलायां वाय्वादिचाक्षुषापत्तेरुद्भूतरूपहेतुतयैव वारयितुं शक्यत्वात् / न च चक्षुःसंयुक्तविशेषणतायां द्रव्यचाक्षुषप्रयोजकवेजात्यं न निविशते किन्त्वालोकसंयोगावच्छिन्नत्वमेवेतिवाच्यम् , तन्निवेशे गौरवस्यैव वैजात्यनिवेशकत्वात् / न चाभावचाक्षुषजनकतावच्छेदकं वैजात्यान्तरमेव कल्पनीयं तत्कल्पनापेक्षयोद्भूतरूपहेतुत्वस्यैव युक्तत्वात् अन्यथा स्ववृत्त्यभावविषयकघटादिचाक्षुषस्थले घटादावनन्तचक्षुःसंयोगकल्पनापत्तेः फलमुखगौरवस्यापि क्वचिदोषत्वात् / ___एवं परमाण्वादौ महत्त्वाभावप्रत्यक्षजनकचक्षुःसंयुक्तविशेषणतानुरोधेन विलक्षणसंयोगसत्त्वधौव्ये महत्त्वस्यापि पृथग्घेतुत्वमावश्यकम् / यदि च द्रव्यचाक्षुषप्रयोजकजातेापकमेवाऽभावचाक्षुषप्रयोजकं वैजात्यम् , अतो न घटादावभावप्रत्यक्षानुरोधेन चक्षुःसंयोगान्तरकल्पना वाय्वादौ तादृशचक्षुःसंयोगसत्त्वेऽपि द्रव्यचाक्षुषप्रयोजक नात्याश्रयस्यासत्त्वान्न तत्प्रत्यक्षमिति विभाव्यते तदा रूपस्याहेतुत्वेऽपि न क्षतिः / __ अथ द्रव्यसवमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य प्रत्यासत्तित्वात्तयैव प्रत्यासत्याः घटादिप्रत्यक्षसंभवाच्चक्षुःसंयोगत्वेन हेतुत्वे मानाभावः / तव कपालचक्षुःसंयोगानन्तरं घटस्योत्पत्तिक्षणे द्वितोयक्षणे वा तत्प्रत्यक्षस्येव ममापि कपालविनाशदशायां घटचक्षुःसंयोगोत्पत्त्या घटप्रत्यक्षस्यानुपगमे क्षत्यभावात् / * न चात्मप्रत्यक्षस्यानुरोधेन द्रव्यसाक्षत्कारत्वावच्छिन्ने इन्द्रियसंयोगत्वेन हेतुत्वाच्चक्षुःसंयोगादेरपि द्रव्यचाक्षुषहेतुत्वमुपपद्यत इति चिन्तामणिकृदुक्तं युक्तम् / इन्द्रियत्वस्यैकस्याभावाद्विशिष्य कार्यकारणभावविश्रामे द्रव्यमानसत्वावच्छिन्नं प्रत्यात्ममनःसंयोगत्वेन हेतुत्वेपि द्रव्यचाक्षुषत्वावच्छिन्ने चक्षुःसंयोगत्वेन हेतुत्वस्य नियुक्तिकत्वात् , न चैवं पिशाचतद्रूपादेः प्रत्यक्षत्वप्रसंगः, व्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसम्बन्धेनोद्भूतरूपत्वेनापि हेतुत्वात् , इत्थं च यणुकसिद्धिरप्यावश्यकी तदसत्त्वे त्रसरेण्वप्रत्यक्षतापत्तेः / महत्त्वं च समवायेन द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रत्येव द्रव्यान्यतत्समवेतसाक्षात्कारत्वावच्छिन्नं प्रति च स्वाश्रयसमवेतत्वप्रत्यासत्त्या