________________ 1922] वादमाला [3] . यदपि स्वगोलकादेरग्रहणं विलक्षणचक्षुःसंयोगाभावादेवोपपादयितुं शक्यमित्युद्भाव्यते तदपि तु अग्रावच्छिन्नचक्षुःसंयोगस्य ग्राहकत्वादेव स्वगोलकादेरग्रहणस्य प्रकाशकृतोपपादनात् / युक्तं चैतदन्यथा यच्चक्षुःक्रियया घटादौ गोलके चैकदा नानासंयोगो जनितस्तत्क्रियाजन्यतावच्छेदकवैजात्यशालिसंयोगवद्गोलकप्रत्यक्षस्य दुर्निवारत्वात् / यदपि दर्पणे मुखमिति चाक्षुष दर्पणादिस्वच्छद्रव्यप्रतिहतस्य चक्षुषः स्वमुखादौ विलक्षणसंयोगोत्पादाभ्युपगम एव सूपपादं कार्योन्नेयधर्माणां यथाकार्यमुन्नयनादित्युद्धोष्यते तदप्यापातरमणीयम् / तत्र मुखविशेष्यकचाक्षुषस्थानभ्युपगमादर्पणविशेष्यकमुखप्रकारकभ्रमस्यैवाभ्युपगमात् , तदुत्तरं दर्पणे मुखमिति मुखविशेष्यकमानसभ्रमस्यापि सम्भवात् , न चैवं दोषकल्पनायां गौरवमादर्शवृत्तित्वांशभ्रमजनकदोषकल्पनायाः परस्याप्यावश्यकत्वात् / . किं चैकत्र दर्पणे दशमुखप्रतिबिम्बस्थले तव शतमुखचक्षुःसंयोगकल्पनं मम तु दशदर्पणनयनसंयोगकल्पनमेवेति लाघवम् / अपि च तव बहुविधानां मुखचक्षुःसंयोगगतविलक्षणजातीनां तदवच्छिन्नजनकतावच्छेदिकानां क्रियागतजातीनां तदवच्छिन्नजनकतावच्छेदकाभिघातगतजातीनां च कल्पने गौरवमिति दिग् / __यदि चालोकसंयोगस्याप्यस्थूलावयवावच्छेदेन तदवच्छिन्नस्थूलावयवावच्छेदेन च सत्त्वेन प्रत्यक्षमिति स्थूलावयवसमवेतचाक्षुषत्वावच्छिन्न आलोकसंयोगानवच्छेदकभागानवच्छिन्नालोकसंयोगावच्छेदकास्थूलावयवानवच्छिन्नस्थूलावयवावच्छिन्नचक्षुःसंयोगत्वेन हेतुत्वे गौरवाद् द्रव्यचाक्षुषत्वावच्छिन्ने विलक्षणालोकसंयोगत्वेन विलक्षणचक्षुःसंयोगत्वेन च हेतुत्वमेव युक्तं लाघवात् वैजात्यानन्त्यतदवच्छिन्नहेतुत्वादिकल्पनागौरवस्य च फलमुखत्वादिति विभाव्यते, तदास्तु चक्षुःसंयोगगतं वैजात्यम् , तच्च कर्मजन्यतावच्छेदकजातिव्याप्यम् / चक्षुर्व्यापारं विना कुत्रापि चाक्षुषानुपपत्तेः / पूर्वोत्पन्नचक्षुःकर्मणा कपालनाशकाले यत्र चक्षुर्घटसंयोगस्तत्रत्यघटचाक्षुषसंयोगजचक्षुःसंयोगस्य स्फुटव्यभिचाराच्च / तथा च न कर्मजन्यताद्यवच्छेदिकया सांकर्यम् / वस्तुतः कर्मणः संयोगजन्यतावच्छेदिका नानव जातयः / कार्यतावच्छेदकानामननुगतत्वेऽपि क्षत्यभावात् , एवं च चाक्षुषोपधायकचक्षुःसंयोगगतं कर्मसंयोगप्रयोज्यजातिद्वयं द्रव्यचाक्षुषप्रयोजकजातेप्प्यमेवेति क्व साङ्कर्यम् ? एतेन यत्र चक्षुःकर्मणा कपालचक्षुःसंयोगजननकाले घटोत्पादोऽनन्तरं च कपालचक्षुःसंयोगाद् घटचक्षुःसंयोगचक्षुःक्रियानाशौ तत्रोत्तरकालघटप्रत्यक्षानुपपत्तिः कर्मजन्यचक्षुःसंयोगस्य घटे विरहादित्यपास्तम् // न चैवं द्रव्यचाक्षुषे उद्भूतरूपस्य हेतुत्वं न स्यात् , पिशाचादौ विलक्षणचक्षुःसंयोगविरहादेव चाक्षुषानुपपत्तेः, चक्षुषि च चक्षुःप्रतियोगिकविलक्षणसंयोगाभावादेव दोषाभावात् , हेत्वन्तरकल्पनापेक्षया क्लृप्तकारणे चक्षुःप्रतियोगिकत्वमात्रनिवेशस्यैव लघुत्वेनौचित्यात् / घटादेः स्पार्शनदशायां चाक्षुषापत्त्या चक्षुःप्रतियोगिकत्वेन चाक्षुषहेतुत्वध्रौव्याच्च / परमाण्वाद्यवच्छेदेन त्वक्संयोगादपि धटादिस्पार्शनप्रसंगेन त्वक्संयोगादेव्यस्पार्शनजनक त्वस्यापि तादृशवैजात्येनैवावच्छेदात् , न च प्रभायाश्चाक्षुषत्वानुरोधेन द्रव्यस्पार्शनजनकतावच्छे