________________ वादमाला [3] न च चक्षुःसंयोगे द्रव्यचाक्षुषकारणतावच्छेदकतयैवालोकसंयोगावच्छिन्नत्वसिद्धिस्तदवक्छेदकतया तत्र धर्मान्तरसिद्धावपि तदवच्छिन्नत्वासिद्धेः / न चालोकसंयोगावच्छेदकदेशावच्छिन्नचक्षुःसंयोगत्वेन हेतुत्वं विनिगमनाविरहेण चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगस्यापि हेतुत्वात् , कारणतावच्छेदकस्य प्राक् सत्त्वापेक्षणाद्वा नालोकविगमेऽपि चाक्षुषापत्तिरित्युकावपि निस्तारः / यत्रैकस्यैव पटस्याई तमसि अर्द्ध चालोके तत्र तमोवच्छेदेन चक्षुःसंयोगेऽपि प्रत्यक्षापतेः, आलोकसंयोगावच्छेद कोभूतदीर्घतन्तुव्यक्त्यवच्छेदेन तत्र चक्षुःसंयोगाप्रतिघातात् , न चालोकसंयोगावच्छेदकावच्छिन्नावच्छेदकताकचक्षुःसंयोगत्वेन हेतुत्वोक्तावपि निस्तारस्तादृशदीपाशुव्यक्तिस्थले व्यभिचारानुद्धारात् , तस्माद्विलक्षणचक्षुःसंयोगत्वेनैव द्रव्यचाक्षुषहेतुत्वम् / तच्च वैलक्षण्यं फलकल्प्यमिति तमसि विलक्षणचक्षुःसंयोगाभावादेव न चाक्षुपमित्याहुः, तच्चिन्त्यम् आलोकसंयोगानवच्छेदकभागानवच्छिन्नालोकसंयोगावच्छेदकावच्छिन्नचक्षुःसंयोगत्वेन हेतुत्वे दोषाभावात् / ___ दीर्घतन्तुव्यक्तेरपि तमःस्थभागस्यालोकसंयोगानवच्छेदकत्वात् , अन्यथेयं तन्तुल्यक्तिरियती तमसोयतो चालोक इति व्यवहारानुपपत्तेः / विलक्षणचक्षुःसंयोगाभ्युपगमेनोक्तदोषोद्धारे च विनश्यदवस्थालोकसंयोगदशायां चक्षुःसंयोगोत्पत्यालोकसंयोगनाशदशायां घटप्रत्यक्षापत्तिः / न च पूर्वक्षणे चक्षुरात्मकाश्रयनाशपूर्वं तदानीं चक्षःसंयोगनाशोपगमान्न दोष इति वाच्यम् ,अन न्तचक्षुरादिनाशल्कपने गौरवात् , विनश्यदवस्थालोकक्षणोत्पत्तिकचक्षुषस्तदानीं नाशायोगाच्च / न च तत्पुरुषोयद्रव्यचाक्षुषे तत्पुरुषीयविलक्षणचक्षुःसंयोगत्वेन विलक्षणालोकसंयोगत्वेन च पृथग्घेतुत्वान्न दोष इति वाच्यम् चैत्रादिचाक्षुषजनकतावच्छेदकचक्षुःसंयोगालोकसंयोगनिष्ठानन्तवैजात्यकल्पनापेक्षयाऽस्मदुक्तरीत्या हेतुत्वस्यैव युक्तत्वात् / / . यदपि तैरुच्यते द्रव्यचाक्षुषे न शुद्धचक्षुःसंयोगत्वेन हेतुत्वम् अस्थूलावयवावच्छेदेन चक्षुः संयोगे चाक्षुषापत्तेः, नापि स्थूलावयवावच्छिन्न चक्षुःसंयोगत्वेन, त्रुटिचाक्षुषे व्यभिचारात्तदवयवस्यास्थूलत्वात् , न च स्थूलावयवसमवेतचाक्षुषत्वस्य कार्यतावच्छे दकत्वादयमदोषः / यत्र कपाले परमाण्ववच्छेदेन चक्षुःसंयोगाद् घटेऽपि तदवच्छिन्नकपालावच्छेद....तत्कपालात्मकस्थूलावयवावच्छिन्नचक्षुःसंयोगस्य घटे सत्त्वात्तदानीं तच्चाक्षुषापत्तयनुद्धारात् , न च निरवच्छिन्नस्थूलावयवनिष्ठावच्छेदकताक चक्षुःसंयोगहेतुत्वान्न दोषः, शर्कराद्यवच्छिन्नकपालावच्छेदेन चक्षुःसंयोगेऽपि घटाप्रत्यक्षतापत्तेरिति विजातोयचक्षुःसंयोगत्वेन चाक्षुषहेतुतयैवैतदुप पत्तिरिति, तदपि न रमणीयम् स्थूलावयवसमवेतचाक्षुषत्वावच्छिन्नेऽस्थूलावयवानवच्छिन्नस्थूलावयवावच्छिन्न चक्षुःसंयोगस्य हेतुत्वेनैतदोषोद्धारात् / त्रुटिचाक्षुषे त्वालोकसंयोगवद्वातायनावच्छिन्नचक्षुःसंयोगस्यावश्यं पृथग्घेतुत्वेनानुपपत्त्यभावात् / वा. [3] 16