________________ अथ सन्निकर्षः / तत्र द्रव्यचाक्षुषे चक्षुःसंयोगो हेतुरुद्भूतरूपं च तत्सहकारीति न चक्षुःसंयुक्तपिशाचादेश्वाक्षुषापत्तिः / उद्भूतरूपस्य च संग्राहकत्वलाघवात्तदात्मान्यद्रव्यप्रत्यक्षत्वं मूर्तप्रत्यक्षत्वं वा कार्यतावच्छेदकं तेन वाय्वादेरप्रत्यक्षत्वमेव / द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति च महत्वत्वेन हेतुतेति परमाणोर्न साक्षात्कारः, न वा द्रव्यमानसजनकात्ममनःसंयोगसत्त्वान्मनसोऽपि मानसापत्तिमैनःप्रतियोगिकविजातीयसंयोगस्य द्रव्यमानसहेतुत्वे तु गौरवमिति बोध्यम् / न च तमः स्थिरधटादेरपि चाक्षुषप्रसंगः, तत्र तदा चक्षुःसंयोगस्य महत्त्वोद्भूतरूपयोश्च सत्त्वात्, न च तदानीं चक्षुः संयोगे मानाभावः द्रव्यवृत्त्यभावचाक्षुषहेतुचक्षुःसंयुक्तविशेषणतानुरोधेन तत्स्वीकारावश्यकत्वादितिवाच्यम् , महदुद्भूतानभिभूतरूपवदालोकसंयोगस्यापि द्रव्यचाक्षुषत्वावच्छिन्न प्रति हेतुत्वात् परमाणुरूपेण तप्तजलस्थेन सुवर्णरूपेण च तेजसा व्यभिचारवारणाय महदादिविशेषणानि / न चालोकचाक्षुष एव व्यभिचारस्तत्राप्यालोकगगनसंयोगसत्त्वात् / सुवर्णभिन्नं यत्तेजस्तद्भिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येवोक्तालोकसंयोगस्य हेतुत्वमित्यन्ये, प्रभासंयोगत्वेनैव हेतुत्वं प्रभात्वं तु जातिविशेष इति तु नव्याः / ___ यद्यप्येवं बिडालादिचाक्षुषे व्यभिचारः / मानुषीयद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव निरुक्तालोकसंयोगाभावाभावत्वेन हेतुत्वं / बिडालादिचाक्षुषे तु बिडालाद्विचक्षु:भोगावेदेति न दोष इति मथुरानाथप्रभृतयः // अत्रालोकसंयोगाभावे तत्पुरुषीयाञ्जनसंयोगाभाववैशिष्टयं स्वाश्रय चक्षुःसंयोगाधिकरणवृत्ति त्वसम्बन्धावच्छिन्नप्रतियोगिताकतत्पुरुषोयाञ्जनसंयोगाभावस्य विशेषणताविशेषरूपं ग्राह्यं तेन नाजनसंयोगकालेऽप्यालोकसंयोगाभावे तदभावसत्त्वादतिग्रसंगः, न वा विनिगमनाविरहः समवायसम्बन्धावच्छिन्नप्रतियोगिताकाजनसंयोगाभावस्य स्वाश्रयचक्षुःसंयोगाधिकरणवृत्तित्वसम्बन्धेन वैशिष्टयं तु प्रदेशान्तरे तत्सत्त्वेऽपि तदभावसत्त्वान्निवेशनानहम् / उक्तसम्बन्धावच्छिन्नतदभावस्तु नाव्याप्यवृत्तिरिति न तन्निवेशेऽप्येष दोष इति बोध्यम् // चैत्रीयत्वाद्यनिवेशेन चक्षुःसंयोगस्य चाक्षुषहेतुत्वे त्वञ्जनसंयोगालोकसंयोगयोः स्वस्वाव्यवहितोत्तरनरचाक्षुषत्वावच्छिन्न एव हेतुत्वं द्रष्टव्यम् // अथैवमप्येकावच्छेदेनालोकसंयोगवत्यपरावच्छेदेन चक्षुःसंयोगे चाक्षुषापत्तिरिति चेत् , न चक्षुःसंयोगावच्छिन्नालोकसंयोगत्बेन हेतुत्वात् / अत्र मथुरानाथप्रभृतयः / ... आलोकसंयोगावच्छिन्नत्वं न तत्सामानाधिकरण्यं भिन्नावच्छेदेनोभयसंयोगेऽतिप्रसंगात / नापि स्वरूपसम्बन्धविशेषो मानाभावात् , अन्यथा भूतलनिष्ठवटपटसंयोगयोरपि मिथोवच्छेदकभावापत्तेः /