________________ वादमाला.[३] वप्रतीतिसंभवात्, चैत्रस्य न धनमित्यादेः स्वामित्वसम्बन्धेन धनाभावश्चैत्रसम्बन्धीति बोधाभ्युपगमे च दण्डस्य न पट इत्यादेरपि कारणत्वसम्बन्धेन घटाभावो दण्डसम्बन्धीत्यादिबोधप्रसंगः / दण्डस्य पट इत्यत्र कारणतासम्बधेन पटवत्ताज्ञानाभावादण्डस्य न पट इत्यत्र तेन सम्बन्धेन तदभत्त्वावगाही बोधो न कल्पत इति चेत्, तर्हि चैत्रस्य धनमित्यत्रापि स्वामित्वसम्बन्धेन धनवत्ताज्ञानाभावाच्चैत्रस्य न धनमित्यत्रापि न तेन तद्भावावगाहिबोधकल्पनं युक्तम् / चैत्रस्य धनमित्यत्र स्वामित्वसम्बन्धेन धनवत्त्वमेव चैत्रे प्रतीयते, स्वामित्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतया शाब्दबोधे च षष्ठयन्तपद जन्यपदार्थोपस्थितेर्हेतुत्वान्नियमतः षष्ठीप्रयोगः, तादृशनियमार्थमेव षष्ठ्यनुशासनमिति चैत्रस्य न धनमित्यत्र स्वामित्वसबन्धेन धनाभावावगाहित्वं कल्पत इति चेत्, तर्हि दण्डाद्घट इत्यत्र कारणतासम्बन्धेन घटवत्त्वज्ञान एब पञ्चमीप्रयोगस्तन्त्रमिति दण्डान्न पट इत्यत्र तेन तदभावप्रत्ययोऽपि दुर्वारः / किंच चैत्रस्य धनं न तु मैत्रस्य मैत्रस्य धनं न तु चैत्रस्येत्यादौ एकस्वत्वापरस्वत्वाभावयोरेकधनविशेष्यकत्वानुभवान्न धनस्य प्रतियोगित्वोल्लेखोद्भावनेन स्वामित्वसम्बन्धेन तदभावकल्पनं युक्तम् / अधनोऽयमित्यादिव्यवहारेण स्वामित्वसम्बन्धावच्छिन्नाभावकल्पने चानाथोऽयं भृत्य इत्यादिव्यवहारेण स्वत्वसम्बन्धावच्छिन्नाभावस्यापि कल्पनप्रसङ्गः, तथा च चैत्रस्य न धनमित्यत्र स्वाभित्वसम्बन्धेन धनाभावश्चैत्रे स्वत्वसम्बन्धेन चैत्राभावो वा धने भासत इति विनिगमनाविरहो दुरुधर एव / . तस्मात्प्रागुक्तदिशा स्वत्वस्य षष्ठ्यर्थत्व एव सर्व सुन्दरम्, पुत्रस्य न धने पितुष इति . :प्रयोगवारणाय च विशिष्य नियमान्तरकल्पने शाब्दबोधे प्रथमान्तपदजन्योपस्थितेः, प्रतियोगित्व सम्बन्धावच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यतयैवाभावशाब्दबोधे तादृशनञ्पदजन्योपस्थितेर्वा नियामकत्वेनानतिप्रसंगात्, अन्यथा भूतले न घटेऽप्रीतिरित्यादेरिणाऽसंभवादिति, लाघवं शाब्दबोधे प्रथमान्तपद जन्ये तु प्रामाणिकत्वाददुष्टम्, चैत्रे (त्रो!) न पचतीत्यादेः पाककृत्यभाववान् चैत्र इत्यादि बोधवारणाय प्रत्ययार्थाभावप्रकारकबोधसामान्य एव प्रथमान्तजन्योपस्थिते हे तुत्वाच्चेति दिग् // इदं तु बोध्यं सम्बन्धत्वस्याखण्डोपाधित्वे तदेव षष्ठ्याः शक्यतावच्छेदकं स्वत्वादौ तु लक्षणैवेति / नव्यास्तु-स्वत्वं स्वामित्वं चैक एव पदार्थः / स च विलक्षणविशेषणतयाऽत्र स्वत्वमिदं स्वमित्यादिव्यवहारकारी विलक्षणविशेषणतया चात्र स्वामित्वं पतित्वं वेत्यादिव्यवहारकारी, तमय मेदेऽपि तयोरपश्यं पुकान ने विशेषण ताभेदाभ्युपगमादित्याहुः // 1 //