________________ 118] वादमाला [3] केचित्तु अत्र चैत्रस्य स्वामित्वं नात्र चैत्रस्य स्वामित्वमित्यादिप्रतोत्यनुरोधान्निरूपकत्वमपि वृत्तिनियामकमेव / न चात्र स्वामित्वपदं स्वत्वपरं सप्तम्या वा निरूपितत्वे लक्षणेति कल्पना युक्ता गौरवात् / एतेनैवात्र स्वत्वनिरूपकत्वमेव स्वामित्वमित्येकदेशेऽपि स्वत्वे सप्तम्यर्थान्वयो नअर्थे च स्वत्वनिरूपकत्वसंसर्गाभावे चैत्रस्येत्यस्यान्वय इत्यपि प्रत्युक्तम्, नात्र चैत्रस्य स्वामित्वं किन्तु मैत्रस्येत्यत्र चैत्रनिष्ठस्वामित्वाभावमैत्रनिष्ठस्वामित्वयोरेकवृत्तित्वोल्लेखाच्च / न च निरूपकत्वस्य वृत्तिनियामकत्वे धनं स्वामोति बुद्धिः स्यादिति वाच्यम् / स्वामित्वप्रकारकबुद्धेरिष्टत्वात् / स्वामीत्यभिलापजनिका बुद्धिः स्यादिति चेत् , न, तादृशामिलापे स्वामिचैत्रादिगतस्वरूपसम्बन्धेन विशिष्टबुद्धेरेव हेतुत्वात् / अन्यथा कालिकसम्बन्धोऽपि वृत्तिनियामको न स्यात् / कालो गौरित्याद्यभिलापजनकबुद्धेस्ततोऽभावात्, तस्माद् यथा कालिकसम्बन्धेन विशिष्टबुद्धेरिदानी घट इत्यादिरेवाभिलापस्तथा निरूपकतासम्बन्धेन स्वामित्वविशिष्टबुद्धेश्चैत्रस्य स्वामित्वमित्यादिरेवाभिलाप इति // किंच चैत्रस्य न धनमित्यादौ स्वामित्वसम्बन्धेन धनाभावश्चैत्रसम्बन्धीत्येव बोधः / धनस्य प्रतियोगित्वोल्लेखान्यथानुपपन्या वृत्यनियामकस्यापि स्वामित्वादेः सम्बन्धस्य प्रतियोगितावच्छेदकत्वाङ्गीकारात्, अत एवाधनोऽयं धनशून्योऽयमपुत्रोऽयं पुत्ररहितोऽसावित्यादयो व्यवहाराः / न चात्र धनादिपदं तत्स्वामित्वादिपरं मुख्ये बाधकाभावात् / न च स्वामित्वादिसम्बन्धेन धनत्वाद्यवच्छिन्नप्रतियोगिताकाभावान्तरकल्पनमेव बाधक धनादिस्वामित्वत्वाद्यवच्छिन्नाभावानतिरिक्तत्वात्, तथापि स्वामित्वसम्बन्धावच्छिन्नधनादिनिष्ठप्रतियोगितान्तरकल्पने गौरवमिति चेत्, न, प्रतियोगिताया धनादिस्वरूपायाः क्लुप्तत्वेन गौरवाभावात्, धनादेः प्रतियोगित्वोल्लेखिप्रतीतेगौरवस्य प्रामाणिकत्वाच्च / एतेन स्वामित्वादिसम्बन्धेन धनाद्यभावकल्पने तबुद्धौ धनादिमत्तनिश्चयत्वेन प्रतिबन्धकत्वान्तरकल्पने गौरवमित्यपास्तम् / स्वामित्वादेः प्रतियोगितानवच्छेदकत्वेऽपि विशेषादर्शिनस्तादृशप्रतोतेः, तत्सम्बन्धेन तथा प्रतिबध्यप्रतिबन्धकमावस्यापि क्लृप्तत्वाच्च / स्वामित्वादिसम्बन्धेन नोऽभावबोधनेऽनुयोगिपदे षष्ठयादेर्नियामकत्वाच्च नातिप्रसंगः / किंच नेदं चैत्रस्येत्यत्र स्वत्वाभावबोधोपगमे षष्ठ्यर्थस्वत्वाभाववोधं प्रति प्रथमान्तपदजन्योपस्थितेर्नियामकत्वात्पुत्रस्य न धने पितुर्दृष इत्यादि वाक्यात् पुत्रस्वत्वाभाववद्धने पितुर्वृष इत्यन्वयबोधप्रसंगवारणं संभवति / स्वामित्वसम्बन्धेन धनाभावबोधोपगमे तु नैतद्वयुत्पत्तिकल्पनं तत्र धने सप्तम्या निराकाङ्क्षत्वादित्याहुः तच्चिन्त्यम्, कारणत्वादेरिव स्वामित्वस्य निरूपकताया वृत्त्यनियामकत्वात् / घटे दण्डस्य कारणता न पटे इत्यत्र दण्डनिष्ठकारणतायां घटनिरूपितत्वपटनिरूपितत्वाभावप्रतीतिवदत्र चैत्रस्य स्वामित्वं नापरत्रेत्यत्र चैत्रनिष्ठस्वामित्वे एतन्निरूपितत्वापरनिरूपितत्वाभा