________________ वादमाला [3] गितया घटविशिष्टाभावभानाभ्युपगमे घटो न घट इत्यस्यापि प्रसंगात् घटे घटात्यन्ता भावसत्त्वात् / धर्मात्यन्ताभावस्य धर्मिभेदत्वेऽपि तादात्म्यावच्छिन्नधर्मिनिष्ठप्रतियोगिताकत्वाभावान्नातिप्रसंग इति विभाव्यते तदापि वृत्त्यनियामकसम्बन्धमात्रस्य संसर्गाभावप्रतियोगितानवच्छेदकत्वनियमो निर्बाध एव तेन क्वचिदपि तदप्रत्ययात्संयोगेन गगनाद्यभावे च गगनादिसंयोगो न प्रतियोगितावच्छेदकः किन्तु संयोगत्वेन घटादिसंयोग एवेति न दोषः / / न चैवं स्वत्वस्य षष्ठ्यर्थत्वेऽपि धनस्वामिन्यपि नायं धनस्येति व्यवहारापत्तिः / धननिरूपितस्वामित्वस्य पुरुषवृत्तित्वेऽपि धननिष्ठस्वत्वस्य पुरुषावृत्तित्वादिति वाच्यम् , इष्टत्वात् / स्वामित्वस्य षष्ठ्यर्थत्वेऽपि तत्र निष्ठतासम्बन्धेनैव प्रकृत्यर्थान्वयस्य व्युत्पन्नतया तादृग्व्यवहारस्य दुरित्वात् / ___ न च तथापि वृत्यनियामकसम्बन्धस्याप्यभावप्रतियोगितावच्छेदकत्वनये स्वामित्वस्य षष्ठ्यर्थत्वे न किमपि बाधकमिति वाच्यं / तन्नयेऽपि प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वस्यैवाभावविरोधितया गगनादिसंयोगिनि घटादौ संयोगसम्बन्धावच्छिन्नगगनाद्यभाववच्चैत्रनिष्ठस्वामित्वनिरूपकेऽपि धने निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकचत्रनिष्ठस्वामित्वाभावस्य . वृत्तौ बाधकाभावेन चैत्रीयेऽपि नेदं चैत्रस्येति व्यवहारापत्तेर्दुर्वात्वात् / न चैवं संयोगसम्बन्धावच्छिन्नगगनाद्यभाववद्विषयतासम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यापि केवलान्वयित्वं स्यात् , स्याच्च विषयतासम्बन्धेन ज्ञानादेः केवलान्वयित्वं तस्याधिकरणत्वानियामकतया तेन सम्बन्धेन ज्ञानाद्यधिकरणत्वस्यैवाप्रसिद्धेरिति वाच्यम् , इष्टत्वात् / ज्ञानविषयत्वादेरेव केवलान्वयित्वात् / ___यदि च वृत्त्यनियामकसम्बन्धोऽप्यत्यन्ताभावप्रतियोगितावच्छेदकः / प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसम्बन्धित्वमेवाभावधींविरोधि / अत एव प्रलय एव परमाणावुत्त्पत्तिकाल एव चावयविनि संयोगसम्बन्धावच्छिन्नगगनाद्यभावो नान्यदा / न च संयोगेन गगनकुम्भादेरवृत्तित्वं तेन तदभावस्वीकारं विना दुर्वचं, यत्सम्बन्धे यत्सम्बन्धावच्छिन्नाधारतायां वा यदधिकरणानुयोगिकत्वयत्प्रतियोगिकत्वोभयाभावस्तेन तत्र तदवृत्तित्वमिति विशिष्यैव निर्वचनात् , अत एवं ज्ञानविषयत्वादिवद्विषयतासम्बन्धेन ज्ञानादिकमपि केवलान्वयि, विषय नासम्बन्धावच्छिन्नज्ञानाद्यभावस्त्वलीक इति मतमाद्रियते तदास्तु विनिगमकाभावात् स्वत्वस्वामित्वोभयमेव षष्ठ्यर्थः / तात्पर्यग्रहस्य नियामकत्वादेव च चैत्रस्य धनमित्यादौ नियमत उभयानवगमस्यान्यतरावगमस्य घोपपत्तेः, इत्थं च निष्ठतया षष्ठ्यर्थस्वामित्वान्वयतात्पर्ये निरूपितत्वेनैव तत्र प्रकृत्यर्थान्वयस्य व्युत्पन्नत्वान्नायं धनस्येत्यस्याप्यनापत्तिरिति ध्येयम् / /