________________ 126] बादमाला.[३] श्रयसमवेतत्वसम्बन्धेन चाक्षुषाभावस्यानुगतप्रतिबन्धकत्वादेव तदप्रत्यक्षत्वम् / न चैवं द्रव्यप्रत्यक्षे महत्त्वस्य द्रव्यचाक्षुषे च रूपस्य हेतुत्वं न स्यादिष्टत्वात् / परमाणुपिशाचाद्यन्तर्भावेन तत्समवेतचाक्षुषत्वावच्छिन्नं प्रति तच्चक्षुःसंयोगत्वेन हेतुत्वस्य क्लृप्तत्वात्तदप्रत्यक्षतोपपत्तेरिति चेत् , अत्र वदन्ति, तत्तद् द्रव्योयसंख्याचाक्षुषत्वमेव तत्तद्र्व्यचक्षुःसंयोगत्वावच्छिन्नजन्यतावच्छेदकम् / ननु तत्तद्र्व्यविषयकतत्समवेतचाक्षुषत्वं, गौरवात्, एकावच्छेदेन चक्षुःसंयोगेऽप्यन्यदेशावच्छिन्नसंयोगविभागयोः साक्षात्कारापत्त्या तदवच्छिन्नवृत्तिकचाक्षुषत्वावच्छिन्नं प्रति तदवच्छिन्नचक्षुःसंयोगत्वेन हेतुतायाः स्वातन्त्र्येणावश्यकत्वात्, अस्तु वा तत्तद्घटोयगुण चाक्षुषत्वावच्छिन्नं प्रत्येव प्रत्येकं तत्तद्घटचक्षुःसंयोगत्वादिना हेतुत्वं निरुक्तकार्यतावच्छेदकतयैव द्वित्वद्विपृथक्त्वादिषु गुणत्वसिद्धेः, तथा च द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमन्यथा विप्रकृष्टस्यापि घटादेश्चाक्षुषत्वप्रसंगात् / एवं च परमाणुपिशाचप्रत्यक्षवारणाय रूपमहत्त्वयोरपि / हेतुत्वमिति, तच्चिन्त्यम् / तदवच्छिन्नवृत्तिकचाक्षुषे तदवच्छिन्नचक्षुःसंयोगस्य पृथग्धेतुत्वे गौरवात्, अवच्छेदकतासमवायान्यतरसम्बन्धेन तत्तद्र्व्यवृत्तितत्तद्र्व्यविषयकचाक्षुषत्वावच्छिन्नं प्रति तत्तद्रव्यचक्षुःसंयोगत्वेन हेतुत्वौचित्यात, अवच्छेदकाविषयकसंयोगादिप्रत्यक्षोपपादनाय तदवच्छिन्नचक्षुःसंयोगत्वेन पृथग्घेतुत्वे च कपालविषयकघटप्रत्यक्षोपपादनाय चक्षुःसंयोगत्वेन पृथग्घेतुत्वमिति तु युक्तम् / यत्तु तत्तद्रव्यविषयकतत्तत्समवेतचाक्षुषत्वावच्छिन्नं प्रति तत्तद्रव्यचाक्षुःसंयोगत्वेन हेतुत्वेऽपि यत्र द्वित्रिक्षणावस्थायिघटादिव्यक्तिषु न द्वित्वाद्युत्पत्तिः संयोगस्तु योग्यो यावदाश्रयसन्निकर्षदशायां न जातस्तत्रैव द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगत्वेन हेतुत्वं कल्पते लाघवात् , नहि तत्तद्व्यक्तिचक्षु.संयोगदशायामपि तत्समवेतस्य कस्यचिन्न प्रत्यक्षं येन तत्राप्युक्तविशेषहेतुता कल्पेतेति, तत्तुच्छम् / तथा सति द्वित्रिक्षणावस्थायिघटादीनां रूपसंख्याप्रत्यक्षानुरोधेन द्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायत्वेन हेतुत्वावश्यकत्वे चक्षुःसंयोगहेतुताऽसिद्धेरिति दिग्* अत्र द्रव्यचाक्षुषे चक्षुःसंयोगस्य कार्यतावच्छेदकसम्बन्धो न विषयत्वमात्रं चैत्रस्यायं पुत्र इत्यादि चाक्षुषे चैत्रायंशे व्यभिचारात् किन्तु लोकिकत्वाख्यो विषयताविशेषः अवच्छेदकधर्मविधये वाऽवच्छेदकसम्बन्धविधयाऽपि पदार्थसिद्धेः // इति न्यायविशारद-न्यायाचार्यश्रीमद्यशोविजयवाचकविरचिता तृतीया वादमाला समाप्ता। इयं वादमाला परमपूज्याचार्यश्रीमद्विजयधर्मसूरीश्वरशिष्यमुनियशोविजयेन संशोधिता संपादिता च / वि० सं० 2014 वर्षे, बम्बई नगरे / * मूलप्रतौ 'दिग्' लिखितमस्ति, अन्यथा 'दिक्' इत्युचितम् /