________________ वादमाला [3] न च प्रतिग्रहादिक्रिया प्रतिग्रहीत्रादिसम्बन्धजनिका कर्मकर्तृनिरूप्यत्वाद्गमनवदित्यनुमान तयोः स्वत्वाख्ये सम्बन्धे मानं कर्मकर्तृभावेन सिद्धसाधनात् , न च ग्रामं गच्छतीत्यत्र संयोगवत्साक्षात्सम्बन्धः साध्यः, ग्रामं त्यजतीत्यादावनैकान्तिकत्वात् , न हि तत्र त्यागक्रियया कर्तृकर्मणोः कश्चित्साक्षात्सम्बन्धो जन्यते नापि स्वं स्वमित्यनुगतप्रत्यय एव स्वत्वे मानं तद. सिद्धेरननुगतस्यैव तद्विषयत्वात् , नचानुगतव्यवहारमात्रात्तत्सिद्धिः / / शब्दानुगमेन विषयानुगमस्य कल्पयितुमशक्यत्वादन्यथा सिंहादिष्वपि हरिहरिरित्यनुगतव्यवहारादतिरिक्तो हरित्वपदार्थः कल्पनीयः स्यादिति नैयायिकसम्प्रदायः / नव्यास्तु स्वत्वं न यथेष्ट विनियोगविषयत्वं तादृशविनियोगोपायविषयत्वं वा / विषयताया धनस्वरूपत्वे पूर्व क्रयादेहत्तरं च विक्रयादेः स्वत्वाप्रच्यवप्रसंगात् / क्रयादिस्वरूपत्वे च तदपगमेऽपि स्वत्वाभावप्रसंगात् / न च यद्वयतिरेकेण यथेष्टविनियोगासंभवनिश्चयः शास्त्राविरुद्धतदुपायविषयत्वरूपं यथेष्टविनियोगयोग्यत्वं स्वत्वं तदुपायानां क्रयप्रतिग्रहादीनां क्रियात्वेनास्थिरत्वेऽपि तद्विषयत्वं स्थिरमेव ज्ञाननिवृत्ताविव तद्विषयत्वम् / न चैवं यत्क्रीत्वा विक्रीतं गृहीत्वा दत्तं तत्रापि तद्विषयतासत्त्वाद्विक्रेत्रादिस्वत्वव्यवहारप्रसंगो नहि क्रयाधुपायविषयत्वमानं योग्यता किन्तु स्वव्यतिरेकप्रयुक्तयथेष्ट विनियोगाऽसंभवनिश्चयसहकृतं, तत्र च न पूर्वक्रयव्यतिरेकप्रयुक्तो विनियोगासंभवः - किन्तु विक्रयप्रयुक्त इति क्रयजनिता योग्यता विक्रयादेकस्य निवर्त्ततेऽन्या त्वन्यस्योत्पद्यत इति प्रतियोगितावच्छेदकविशेषिताभावभेदवत्तत्तद्वयतिरेकप्रयुक्तत्वविशेषितं, विनियोगासम्भवनिश्चयभेदेन योग्यताभेदाभ्युपगमे दोषाभावादिति *लीलावत्युपायलिखितेऽप्यास्थाबन्धः कत्तुं युक्तः शास्त्राविरुद्धत्वविशेषणादाने चौर्यादिना गृहीतेऽपि स्वत्वप्रसंगात् , तद्दाने च शास्त्रस्यैव परस्वं नाददीतेत्यादिरूपस्य स्वत्वप्रतीतावप्रतीतेस्तस्मात्परस्वं नाददीतेत्यादिकं शास्त्रमेवातिरिक्तस्वत्वे प्रमाणमित्याहुः / तच्च स्वत्वं प्रतिग्रहोपादानक्रयणपित्रादिमरणैर्जन्यते दानादिभिश्च नाश्यते कारणानामेकशक्तिप्रवत्वात्कार्याणां वैजात्याद्वा कार्यकारणभावनिर्वाह इति पदार्थतत्त्वविवेककृतः / ____ अत्र स्वत्वत्वावच्छिन्नं प्रतिकारणतावच्छेदकतया प्रतिग्रहादिष्वेका स्वत्वनाशत्वावच्छिन्नं प्रति कारणतावच्छेदकतया विक्रयादिष्वपराशक्तिस्तृणादीनामिव वह्नौ सिध्यति, स्वत्वत्वं च जातिरखण्डोपाधिर्वा स्वत्वनाशे च जातेरसत्वेऽप्यखण्डोपाधिरेव जन्यतावच्छेदकः / वाकारोऽस्वरससूचनाय स च बहुतरजातिकल्पनामपेक्ष्यैकस्याः शवतेरेव कल्पनायां लाघवादिति रामभद्रसार्वभौमाः / * न्यायलीलावती ग्रन्थः