________________ वादमाला [3] प्रतिग्रहादीनामेकशक्तिमत्त्वेन स्वत्वमात्रेऽविशेषेण हेतुत्वे संकल्पभेदेन प्रतिग्रहादेः साधारण्येनाऽसाधारण्येन च स्वत्वोत्पत्तिरुपादानादेस्त्वसाधारण्येनैवेति व्यवस्थित्यनिर्वाहाद्विजातीयस्वत्वे प्रतिग्रहादीनां विशिष्य हेतुत्वे त्वाद्यकल्पास्वरस एव युक्त इति ध्येयम् / यदि च चैत्रीयस्वत्वत्वावच्छिन्ने चैत्रीयप्रतिग्रहादोनामेकशक्तिमत्वेनैकशक्तिमत्सम्बन्धेन विषयनिष्ठतया हेतुत्वं पुरुषापेक्षया विषयाणां बहुत्वेनावच्छेदककोटौ तन्निःक्षेपायोगात् प्रतिग्रहे चैत्रोयत्वं च चैत्रोदेश्यकसंकल्पपूर्वकत्वं तावदुद्देश्यकसंकल्पपूर्वकप्रतिग्रहाच्च तावत्स्वामिकस्वत्वसम्भव इति कार्यवैजात्यस्यानानुभविकत्वात्रत्तदवच्छिन्ने विशिष्य हेतुत्वमयुक्तमिति. सूक्ष्ममीक्ष्यते तद सार्वभौमोक्तमेव सम्यक् / यत्त क्वचिद्विक्रयप्रागभावविशिष्टः क्रयविनाशः क्वचिच्च दानादिप्रागभावविशिष्टः प्रतिग्रहादिध्वंस एव सत्त्वं प्रतिग्रहादेः पूर्वं प्रतिग्रहादिध्वंसविरहात्, दानाद्यनन्तरं च तत्प्रागभावविरहान्न स्वत्वब्यहारो विक्रयादिप्रागभावविशिष्टस्य क्रयध्वं सस्य क्रयध्वंसविशिष्टस्य विक्रयप्रागभावस्य च विनिगमकाभावेन तथात्वातू आद्यमादाय स्वत्वमुत्पन्नमित्यस्य द्वितीयमादाय च स्वत्वं नष्टमित्यस्य प्रत्ययस्य संगतिः अतिरिक्तस्वत्ववादिना स्वत्वत्वमप्यतिरिक्तमुपेयमित्यावश्यकत्वादास्तामुपदर्शितेषु ध्वंसादिषु स्वत्वकल्पनापीति सार्वभौमैः सम्प्रदायमतं समाहितं, तच्चिन्त्यं, यदेवान्यस्मै दत्तं कालान्तरे तेन दीयमानमात्मना प्रतिगृहीतं पुनश्चान्यस्मै दत्तं तत्र प्राथमिकदानानन्तरं पुनः प्रतिग्रहादर्वागष्यग्रिमदानप्रागभावविशिष्टताऽप्रच्यवेन स्वत्वव्यवहारप्रसंगात्, दानध्वंसासमकालीनत्वेन दानप्रागभावविशेषणे चान्तरा प्रतिग्रहकृतस्वत्वोच्छेदप्रसंगात् , न च स्वप्रयोज्यदानप्रागभावोपादानात् प्रतिग्रहान्तरप्रयुक्तदानप्रागभावमादाय दोष इति वाच्यं तथापि यत्प्रतिगृहीतमदत्तमेव नयति तत्र स्वप्रयोज्यदानप्रागभावासिद्धेः, तत्र शुद्धः प्रतिग्रहध्वंस एव स्वत्वं शुद्धे ह्यतिप्रसक्ते विशेषणमुपादीयते निर्विशेषणे च तत्र ध्वस्तत्वव्यवहारोऽपि नास्त्येवेति चेत्, न, आश्रयनाशेऽपि तन्नाशानुपपत्तेः / किंच क्लुप्तध्वंसादिष्वेवाऽतिरिक्तस्वत्वत्वकल्पनेन स्वत्वापलापे क्लृप्ताधिकरणेष्वेवाभावत्वमात्रकल्पने नामावस्याप्यपलापरसंग इति यत्किचिदेतत् / तस्मात्तत्तत्प्रतिग्रहादिनाश्यं तत्तद्दानानश्यस्वत्वमतिरिक्तमेव / एतच्च प्रवृत्तिनियामकविशेषणताविशेषेण स्वर्णादिद्रव्यनिष्ठं स्वर्णे स्वत्वमिति प्रत्ययात् / निरूपकत्वाख्यविशेषणताविशेषेण च स्वामिनिष्ठम् / अत्रास्य पुरुषस्य स्वत्वमिति प्रत्ययात् / न चैकस्मिन्युरुषे एतद्र्व्यस्वामित्वमित्यादिधीः कथं स्यात् निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वात् , अन्यथैतस्मिन्पुरुषे एतद्र्व्यस्वत्वमिति प्रत्ययस्यापि प्रसंगादिति चेत् , अत्र वद