________________ दर्भावतीडमनपरमप्रभावकीलोढणपार्श्वनाथाय नमः / न्यायविशारद-न्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयविरचिता ... वा द मा ला। . [ तृतीया ] ऐन्द्रश्रेणिनतं नत्वा, सर्वज्ञं तत्त्ववेदिनम् / . बालानामुपकाराय वादमाला निबध्यते // 1 // तथा प्राचां गुम्फो विशदरचनाढयोऽपि न यथा, नवीनानां पन्थाः प्रथयति मुदे निर्मलधियाम / अपि स्नेहोदारास्तरलतरुणीनामिव दृशां, विकारा वृद्धानामपि किमिह यूनां मदकृते // 2 // वादमालामिमां बालाः ! कुरुध्वं कण्ठभूषणम् / यया सभायां शोभा स्या-न्नवीनैस्तमौक्तिकैः // 3 // तत्रादौ * स्वत्ववाद:. स्वत्वमतिरिक्तं प्रतिग्रहादिजन्यस्य यथेष्टविनियोगजनकस्य व्यापारविशेषस्य धननिष्ठस्य स्वामिनिरूप्यस्य कल्पनादिति केचित्, तन्न, चौर्याद्यनन्तरं यथेष्टविनियोगात्तत्रापि स्वत्वकल्पनापत्तः / स्वरूपसतः सत्त्वस्य यथेष्टविनियोगहेतुत्वे मयेदमर्जितमिति ज्ञानाभावेऽपि यथेष्टविनियोगापत्तेः, तादृशज्ञानविशेषितस्य तस्य तद्धेतुत्वे लाघवादावश्यकत्वाच्च तादृशज्ञानस्यैव तद्धेतुत्वे स्वत्वासिद्धेः / न च स्वत्वज्ञानमेव तद् हेतुः, विनियोगरूपायाः प्रवृत्तेरिष्टसाधनतार्थजन्यतया तन्निरपेक्षत्वात् , न च स्वत्वविशिष्टस्यैवेष्टसाधनत्वं स्वत्वास्पदानास्पदयोर्विनियोगे फले विशेषाभावात् , न हि परकीयान्नभक्षणे बुभुक्षा न प्रशाम्यतीति / न च यथेष्ट विनियोगत्वं प्रवृत्तिगतो जातिविशेषस्तदवच्छिन्ने स्वत्वज्ञानमवश्यं हेतुरितिवाच्यम् , तादृशजातौ मानाभावात् , अनिष्टशङ्का जनितभयाभावादेव यथेष्टोपपत्तेर्भावेऽपि तत्रावश्यकत्वेन स्वार्जितत्वादिज्ञानस्यैव हेतुत्वाच्च / '* अयं संदर्भः स्वकृतप्रमेयमालायामपि विद्यते / बा. [3] 15